SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः इति । यथा सुवर्ण गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति । अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यादिभिर्भावयितव्यमिति विरोधः । एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथानेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्ण गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं, वस्त्र विषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरेपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव । मचार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य प्रभूतार्थविषयत्वं तक्रियोपादानेन पूर्व व्यवहारः प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र च संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन-'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥' इत्युक्त्वोक्तम्-'यत्प्रभूतार्थविषयं यत्र वा स्याक्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा ॥' संकीर्णं भवतीति शेषः । शेर्षांपेक्षया ऐच्छिकक्रम भवतीत्यर्थः । तत्र प्रभूतार्थ -यथा अनेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद्वस्त्रविषयो व्यवहारः। एवं मिथ्याप्रान्यायसंकरे कारणप्राइन्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे सत्यं सुवर्ण रूपकशतं च गृहीतं प्रति दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वनविषये पूर्व पराजित इति चोत्तरे संप्रतिपत्तेभूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्याद्युत्तरक्रियामादाय व्यवहारः प्रवर्तयितव्यः । यत्रतु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वमय था-ङ्गमा. हिकया कश्चिद्वंदति इयं गौर्मदीया अमुकस्मिन्काले नष्टा भद्यास्य गृहे दृष्टेति । अन्यस्तु मिथ्यैतत्, प्रदर्शितकालात्पूर्वमेवासगृहे स्थिता मम गृहे जाता चेति वदति । इदं तावत्पक्ष निराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कारणोपन्यासात् । नापि कारणम् , एकदेशस्याप्यभ्युपगमाभावात् । तस्मात्सैका १ रूपकशते ग. २ द्वितीयसंकरे त्वित्यर्थः. ३ साधयितव्यमेतैः कृत्वा. ४ कारणोत्तरे तु ग. ५ आदिना दिव्यपरिग्रहः. ६ उत्तरत्रयेति मिथ्या-कारण-प्राङ्न्यायरूपे. ७ प्रतिदास्यामि ग. ८ चतुःसंकरेति । यथा अनेन सुवर्ण रूप्यकशतं वस्त्राणि धान्यं च गृहीत. तमित्यभियोगे-सुवर्ण धारयामि रूपकशतं न गृहीतं वस्त्राणि प्रतिग्रहेण लब्धानि धान्यविषये पूर्वन्यायेन पराजित इति । एवं मिथ्याप्राङ्न्यायसंकरेऽपि द्रष्टव्यम्. ९ क्रमेण त्वित्यर्थः, १० चेन प्राडिवाकादेः समुच्चयः. २१ यत्र वित्यर्थः. १२ मिथ्याकारणोत्तरयोः. १३ तत्साधकक्रियाग्रहणेन. १४ सत्योत्तरसंकरस्य पूर्वमनुपन्यासे बीजं ध्वनयन् तत्र निया मकान्तरमाह यत्रचेति. १५ यत् उत्तरम्. १६ अपेक्षाक्रमं भवतीत्यर्थः ग. १७ ऐच्छिकः क्रमो भवतीत्यर्थः ख. १८ संकीर्णोत्तरस्य योगपचेन सर्वथाऽनुत्तरत्वे प्राप्ते कचित्प्रतिप्रसवमाह यत्रत्विति. १९ तन्न्यायेनेत्यर्थः. २० कश्चित् वादी. २१ अन्यः प्रतिवादी. २२ एत. प्रदर्शित. ख. २३ अत्र कारणस्याप्राधान्यं मिथ्योत्तरस्य प्राधान्यं तस्य तदुपपादकस्यापि संभवात् । अतएव तत्र सहयोगे तृतीया कृता. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy