SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता । स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह-सत्यसंधेनाप्रतारकेण । शुचिना जितारिषड्वर्गेण । सुसहायेन पूर्वोक्तसहायसहितेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः३५५ यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ ३५६ ॥ स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्व जगदानन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्तश्चेजगत्प्रकोपयेत् ॥३५६॥ न केवलमधर्मदण्डेन जगत्प्रकोपः अपितु प्रयोक्तुदृष्टादृष्टहानिरपीत्याह अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ ३५७ ॥ यः पुनः शास्त्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्त्रोक्तमार्गेण तु कृतो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति ॥ ३५७ ॥ अपि भ्राता सुतोऽर्यो वा श्वशुरो मातुलोपि वा। नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥३५८॥ अोऽर्धार्हः आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयोऽपि स्वधर्माचलिता दण्ड्याः किमुतान्ये । यतः स्वधर्माचलितः अदण्ड्यो नाम राज्ञः कोऽपि नास्ति । एतच मातापित्रादिव्यतिरेकेण । तथाच स्मृत्यन्तरम्-'अदण्ड्यौ मातापितरौ स्नातकेंपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते हि धर्माधिकारिणः' इति ॥ ३५८ ॥ यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥ किंच । यस्तु दण्ड्यान्स्वधर्मचलनादिना दण्डयोग्यान्सम्यक् शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधाहन्धिातयति तेन राज्ञा भूरिदक्षिणैः ऋतुमिरिष्टं भवति । बहुदक्षिणऋतुफलं प्राप्नोतीत्यर्थः । नच फलश्रवणाहण्यप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रायश्चित्तस्मरणात् । यथाह वसिष्ठः-'दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा' इति ॥ ३५९ ॥ दुष्टे सम्यग्दण्डः प्रयोक्तव्य इत्युक्तं, दुष्टपरिज्ञानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । १ऽसुरमानुषम् क. २ प्रकोपनमपितु क. ३ स्वर्ग कीर्ति लोकांश्च नाशयेत् क. ४ कृतः सोऽपापहेतुत्वात् क. ग. ५ परिव्राजकपुरोहित ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy