SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता। ये राष्ट्राधिकृतास्तेषां चारैख़त्वा विचेष्टितम् । साधुन्संमानयेद्राजा विपरीतांश्च घातयेत् ॥ ३३८ ॥ उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् । संदानमानसत्काराश्रोत्रियान्वासयेत्सदा ॥ ३३९॥ राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्टचरितान्सम्यग्विदित्वा घातयेत् अपराधानुसारेण । ये पुनरुत्कोचजीविनस्तान्द्रव्यरहितान्कृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सद्दानमानसत्कारैः सहिताम्कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ ३३८ ॥ ३३९ ॥ अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् । सोचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ ३४० ॥ योऽसौ राजा स्वराष्ट्रादन्यायेन द्रव्यमादाय स्वकोशं अभिवर्धयेत् सोऽचिराच्छीघ्रमेव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्रामोति ॥ ३४० ॥ प्रजापीडनसंतापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणांचाऽदग्ध्वा न निवर्तते ॥ ३४१॥ प्रजानां तस्करादिकृतपीडनेन यः संतापस्तस्मादुद्भूतो हुताशन इव संतापकारित्वादपुण्यराशिटुंताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांचाइया नाशमनीया न निवर्तते नोपशाम्यति ॥ ३४॥ य एव नृपतेधर्मः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ ३४२ ॥ न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस्तं सकलं वक्ष्यमाणन्यायेन परराष्ट्र वशं नयन् आत्मसात्कुर्वनामोति धर्मषड्भागं च ॥ ३४२ ॥ यस्सिन्देशे य आचारो व्यवहारः कुलस्थितिः।। तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ ३४३ ॥ किंच यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसंकरः कार्यः किं तु यमिन्देशे य आचारः कुलस्थितिर्व्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपालनीयो यदि शास्त्रविरुद्धो न भवति । यदा वशमुपागत इत्यनेन वशोपगमनाआगनियम इति दर्शितम् । यथोक्तम् (मनुः ७।१९५)-'उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसाशोदकेन्धनम् ॥' इति ॥३४३॥ १ सदानमान ख. २ प्राणानदग्ध्वा क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy