SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ याज्ञवल्क्यस्मृतिः । [ आचाराध्यायः स्वर्ग यान्ति । योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो भवन्ति ॥ ३२४ ॥ पदानि ऋतुतुल्यानि भग्नेष्वविनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३२५ ॥ किंच । स्वबलेषु करितुरगरथपदातिषु भग्नेष्वविनिवर्तिनां परबलाभिमुखयायिनां पदानि ऋतुतुल्यान्यश्वमेध तुल्यानि । विपर्यये दोषमाह - विपलायिनां पराङ्मुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥ तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् । न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ ३२६ ॥ I अपिच । तवाहमिति यो वदति तं क्लीबं नपुंसकं निर्हेतिं निरायुधं परसंगतमन्येन सह युध्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षणकं युद्धदर्शिनं । न हन्यादिति सर्वत्र संबन्धः । आदिग्रहणादश्वसारथ्यादीनां ग्रहणम् । यथाह गौतमः - 'न दोषो हिंसायामाहवेऽन्यत्र व्यश्वसारथ्यानायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्यः' इति । शङ्खो - प्याह - 'न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नावर्माणं सवर्मा न स्त्रियं न करेणुं न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजानमराजा हन्यात्' इति ॥ ३२६ ॥ कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्रा स्नात्वा भुञ्जीत कामतः ॥ ३२७ ॥ कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातःकाल उत्थाय स्वयमेवाव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ ३२७ ॥ 1 हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । पश्येच्चारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥ ३२८ ॥ तदन तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयन नियुक्तैरानीतं स्वयमेव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश्चारान्स्पशान्प्रत्यागतान्पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्तांश्चारान्दृष्ट्वा क्वचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव राजान्तरंप्रति गतागतमाचरन्ति । ते च त्रिविधाः निसृष्टार्थाः संदिष्टार्थाः शासनैहराश्चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास्तु राजलेखहारिणः ता. 1 १ हिरण्यादिकं ख २ श्वारान्विश्वस्तान् ख. ३ चासनहस्ताश्चेति क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy