SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ व्योमवत्यां तथाहि कारणाकारणविभागात् संयोगविनाशे सति कार्याकार्यविभागाभ्युपगमाद् एकक्षणव्यवधानम्, कारणविभागपूर्वकस्य तु विभागस्य संयोगविनाशे द्रव्यविनाशे चानन्तरं भवनमिति क्षणद्वयव्यवधानम् । उत्पलपत्रा वयवेषु तु वेगवत्सूच्यादिसम्बन्धात् कर्मोत्पत्तौ विभागात् संयोगविनाशे सति 5 पत्रविनाशः, पुनः पत्रान्तरे सम्बन्धात् अवयवकर्मोत्पत्तिरित्ययं क्रमः पत्रशते ऽप्यूह्य इत्यनेकक्षणशतव्यवधानेऽप्याशुभावित्वस्य भ्रमनिमित्तत्वाभ्युपगमात् । एकक्षणव्यवधाने तु भविष्यत्येव । तस्माद् आशुभावित्वेन यौगपद्याभिमानस्य भ्रान्तत्वात् कारणाकारणविभागाः कार्याकार्यविभागानारभन्त इति । * तददन्तरम् * कार्याकार्यविभागानन्तरम्, प्राक्तनसंयोगविनाशे सति 10 कारणाकारणसंयोगश्च कार्याकार्यसंयोगानारभन्ते, न पूर्वम्, प्राक्तनसंयोगस्य प्रतिबन्धकस्यावस्थानात् । इदन्तु चिरोत्पन्नानां संयोगजसंयोगस्य पूर्व प्रतिज्ञातस्य विभागजविभागानन्तरभावित्वात्, समानोपायतया च अत्रैव निरूपणमिति । अथ शरीरस्याकाशादिना विभागः संयोगश्चेति किं प्रमाणम् ? 15 अनुमानम् । तथाहि, शरीरम्, स्वकारणविभागिना विभजते, तद्विभागि कारणकार्यत्वात्, वीरणविभागितन्तकार्यपटवत् । आकाशादि वा, स्वविभागिकारणकार्यण विभजते, तत्कारणविभागित्वात्, तन्तुविभागिवीरणवत् । एवं शरीरम्, स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्य त्वात्, वीरणसंयुक्ततन्तुकार्यपटवत् । सिद्धे तु शरीराकाशदिसंयोग शरीरस्य 20 तस्मिन् काले निष्क्रियत्वाद् अवयवक्रियायाश्च सत्त्वेन आश्रयान्तरेणैव समवेत कार्यजनकत्वप्रतिषेधात्, असमवायिकारणञ्च विना भावस्योत्पत्तेरदर्शनात्, अन्यस्य चासम्भवे सति कारणाकारणसंयोगात् तस्योत्पत्तिः कल्प्यत इति । शरीराकाशादि समवायिकारणम् । विशिष्टा च दिनिमित्तकारणमिति ।। यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिःकारणसंयोगाच्चानन्तरं 25 कार्यसंयोगोत्पत्तिः, नन्वेवमवयवावयविनोर्यतसिद्धिदोषप्रसङ्ग इति । न, युतसिद्ध्यपरिज्ञानात् । सा पुनयोरन्यतरस्य वा पृथग्गतिमत्वम्, इयन्तु नित्यानाम्, अनित्यानान्तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy