________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
यद् वा निष्क्रियस्याकाशादिदेशेन विभागाभ्युपगमे सक्रियस्योत्तरसंयोगानुत्पत्तिः, कारणाभावात्, न तु निष्क्रियस्य विभागजविभागप्रतिषेधे कारणाभावो हेतुः, समवाय्यादिकारणानां सम्भवात् । तथाहि, निष्क्रियावयवाकाशादेः समवायिकारणत्वम्, विभागस्यासमवायिकारणत्वम्, शेषं निमित्तकारणमित्यस्ति कारणसद्भावः । तस्मादुत्तरसंयोगप्रतिषेधे कारणाभावो हेतुः । तथाहि, सक्रियस्याकाशादिदेशेन विभागानभ्युपगमे प्राक्तनसंयोगस्य प्रतिबन्धकस्यावस्थानाद् उत्तरसंयोगानुत्पत्तिः, तदनुत्पत्तावनुपभोग्यत्वं निष्प्रयोजनत्वं विभागकर्मणोरिति ।
अन्ये तु न निष्क्रियस्याकाशादिदेशेन विभाग इति । असदेतत् । कुतः ? 10 कारणाभावात् । प्रमाणाभावादित्युक्ते परेण बाधकमाह उत्तरसंयोगानुत्पत्ताबनुपभोग्यत्वम् अविनाशित्वं विभागस्येति ।
अथ पहापि अवयवकर्म अवयवान्तरविभागसमकालमाकाशादिदेशेन विभागं नारभते तथापि कार्यविनाशाजमारप्स्यत इति तनिषेधार्थमाह
न तु तदवयकर्म आकाशादिदेशाद् विभागम् * आरभते, विरस्य व्यापार15 प्रतिषेधात् । तदेतदाह * तदारम्भकालातीतत्वात् इति। तस्य कर्मणो विभागारम्भककालः, तस्य वा विभागस्यारम्भककाल: तदारम्भकालः, तस्यातीतत्वादिति ।
अथ कर्मणो विरम्य व्यापारप्रतिषेधे कथमुत्तरसंयोगः ? न, विरम्य व्यापारप्रतिषेधस्थापरिज्ञानात् । तथाहि, कर्म विभागं कृत्वा पुनर्विभागं 20 नारभते, वेगञ्च कृत्वा पुनर्वेगम्, न पुनः संयोगं नारभते इत्याह * उत्तर
संयोगन्तु ? प्रदेशान्तरसंयोगन्तु] करोत्येव अकृतसंयोगस्य कर्मणः [ कालात्ययाभावात् ] * कालात्ययो विनाशस्तस्याभावादिति। दृष्टश्चात्र सद्भावेऽपि तस्य विनाशः । तेनोत्तरसंयोगजनकत्वं कर्मणोऽभ्युपेयम् । तस्मात् तस्य निवृत्तिरिति ।
कारणाकारणविभागादपि कथम् ? यदा हस्ते कर्मोत्पन्नम् अवयवान्तराद् विभागमकुर्वन् आकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे
For Private And Personal Use Only