SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधर्म्यप्रकरणम् न चात्रावयवविनाशात् कार्यद्रव्यस्य च विनाशः, तदवयवकर्मणोऽप्याकाशदेशेन विभागजनकत्वाभ्युपगमेऽवयवान्तरेण विशिष्टविभागानुत्पत्तौ संयोगाविनाशेन तस्याप्यविनाशः स्यात् । एवमुत्तरोत्तरावयवेष्वपि आश्रयविनाशेन विनाशाभ्युपगमे द्वयणुकस्याविनाशः, तदाश्रयस्य नित्यत्वात् । अथ संयोगविनाशाद् द्व्यणुकविनाशस्तर्हि द्रव्यारम्भकसंयोगविरोधिविभागोऽभ्युपगन्तव्यः, तेन सता आश्रयाविनाशेनापि विनाशोपपत्तेः । ७९ For Private And Personal Use Only 5 तथाहि द्रव्यारम्भकसंयोगविनाशाद् विनष्टे समवायिकारणे तदाश्रितस्य कार्यद्रव्यस्य विनाशो घटत एव । तस्माद् यत्र द्रव्यविनाशस्तत्र अवयवकर्म आकाशदेशेन विभागं नारभत इति । प्रयोगस्तु, स्वतन्त्रावयवकर्म, अवयवान्तरेण द्रव्यारम्भकसंयोगविरोधिविभागसमकालमाकाशदेशेन विभागं नारभते, 10 अवयव कर्मत्वात्, पद्मपत्रकर्मवत् । तथा, स्वतन्त्रावयवः, अवयवान्तरेण विशिष्टविभागसमकालं नाकारादेशेन विभजते, अवयवत्वात्, पद्मपत्रवत् । एवं विभागादेरपि पक्षीकरणेनानुमानमूह्यम् । विशिष्टविभागानामुत्पत्तिश्चात्र द्रव्याविनाशेनैव निश्चीयत इति सपक्षधर्मत्वम् पद्मावयव कर्मादेः । न च विशिष्टविभागसमकालमाकाशदेशेन विभागमारभमाणं किञ्चिदुपलब्धमिति विपक्षाभावादन्वयाव्यभिचारेणैव गमकत्वं ज्ञेयम् । सामान्येन तु अवयवविभागसमकालमाकाशदेशेन विभाग. जनकत्वप्रतिषेधे साध्ये व्यतिरेकाव्यभिचारेणापि गमकत्वमिति । 15 तथाहि, स्वतन्त्रावयवकर्म, अवयवान्तरविभागसमकालमाकाशदेशेन विभागं नारभते, स्वतन्त्रावयवकर्मत्वात्, यत्त्वारभते न तत् स्वतन्त्रावयवकर्म, 20 यथा पद्मपत्रकर्मेति । तथा स्वतन्त्रावयवः, अवयवान्तरविभागसमकालं नाकाशदेशेन विभजते, स्वतन्त्रावयवत्वात्, यस्तु विभजते न चासौ स्वतन्त्रावयवः, यथा पद्मपत्रमिति । स्वातन्त्र्यन्तु क्रियाक्रमेण द्रव्यविनाशे भवतीति पूर्वमेवोक्तम् । न चैतत् पद्मावयवसङ्कोचादिक्रयायां सम्भवति, द्रव्यविनाशा - दर्शनात् । अथ पद्मावयवकर्मापि अवयवविभागसमकालमाकाशदेशेन विभागमारमत इत्यतीन्द्रियत्वादनुमानं प्रमाणं वाच्यम्, प्रमाणं विना प्रमेयासिद्धेः । 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy