________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
व्योमवत्यां
विशेष्यावयवावयविसंयोगस्य चासमवायिकारणत्वम्, शेषं निमित्तकारणमिति । केवलोभयकर्मजत्वञ्च परमाणुद्वयसंयोगस्य द्रष्टव्यम् ।
अन्ये तु उभयपदस्य लुप्तविभक्तिकस्य पूर्वोत्तरेण सम्बन्धात् संयोगकर्मजभेदस्यापि ग्रहणं भविष्यत्येवेति मन्यन्ते । तथाहि, संयोगकारणत्वेनोभयोरुपलम्भात् कर्मणः स्वशब्देनोपादाने अन्यतरः संयोगो लभ्यत एव । अन्यतरश्च कर्म चान्यतरकर्मणी ताभ्यां जातोऽन्यतरकर्मजः । स चोभय एकेन कर्मणा सङ्गत्य द्वितीयेन जन्यते । द्वाभ्याञ्च संयोगः सद्वितीयाभ्यामिति । तथोभयः केवलकर्मजोऽप्येकेन कर्मणा जन्यते द्वाभ्याञ्चेति ।
* संयोगजस्तु उत्पन्नमात्रस्य चिरोत्पन्नस्य वा* इत्युभयः । तस्य लक्षण10 माह *अक्रियस्य* इत्यादि ।
___ अक्रियस्येत्ययं नियमः । कैः सहेत्याह *अकारणैः । किविशिष्टैः ? * कारणसंयोगिभिः इति । कारणेन संयोगास्ते येषां तानि तथोक्तानि, तैः कारणसंयोगिभिरकारणैः सह अक्रियस्य यः संयोगः स संयोगजोऽन्यस्य कारण स्याभावात् ।
संग्रहोक्तेविवरणमाह * कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः * इति । कारणमत्र समवायिकारणम्, स्वकार्यस्य तदपेक्षयान्यदकारणम् । तयोर्यः संयोगस्तत्पूर्वकः कार्याकार्यगतः संयोगः । प्रकृतस्य कारणस्य यत् कार्यं तत्संयुक्तञ्चान्यदकार्यं तयोः संयोगज इति। तत्र चिरोत्पन्नस्योदाहरणं विभागजविभागावसरे वक्ष्यमाणमित्युत्पन्नमात्रस्य 20 विभागद्वारेणोदाहरणमाह * स चैकस्मात् * इत्यादि । स च संयोगजसंयोगः, * एकस्माद् द्वाभ्यां बहुभ्यश्च * । 'च' शब्दादेकस्माद् द्वौ इति विभागः ।।
* एकस्मात्तावत् तन्तुवीरणसंयोगात् द्वितन्तुकवोरणसंयोगः इति । तथा हि, तन्तोर्वीरणेन संसृष्टस्य तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तुक
मुत्पद्यते । तस्य च रूपाद्युत्पत्तिसमकालं वीरणेन संयोगो जन्यत इति 25 तदुत्पत्तावसमवायिकारणमन्वेषणीयम् । न चात्र क्रिया सम्भवति, उभयो
निष्क्रियत्वात् । रूपादीनाञ्च स्वकार्योत्पत्तावेव सामर्थ्यावधारणात् ।
15
For Private And Personal Use Only