SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् तबद्धरुत्पद्यमानता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धरुत्पादः, द्विपृथक्त्वस्योत्पद्यमानता, द्वित्वोपादिकाया अपेक्षाबुद्धेविनश्यत्ता, ततो द्विपृथक्त्वस्योत्पादः, द्वित्वगुणबुद्धेरुत्पादः, द्वित्वगुणात्तज्ज्ञानात् तदेकार्थसमवायाच्च द्विपृथक्त्वगुणबद्धरुत्पद्यमानता, अपेक्षाबुद्धेविनाशः, द्वित्वस्य विनश्यत्ता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धविनश्यत्तेत्येकः कालः । ___ततो द्विपृथक्त्वगुणबुद्धेरुत्पादः, द्रव्यबुद्धरुत्पद्यमानता, द्वित्वगुणस्य विनाशः, तबुद्धेविनश्यत्ता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धविनाशः, द्विपृथक्त्वगुणस्य विनश्यत्तेत्येकः कालः । ततो द्वे पृथगिति द्रव्यबुद्धरुत्पादः, गुणबुद्धविनश्यत्ता, द्विपृथक्त्वगुणस्य विनाशः, द्वित्वगुणबुद्धश्च विनाशः, संस्कारस्योत्पद्यमानता, ततः 10 संस्काराद् द्रव्यबुद्धविनाश इति । अत्र तु विद्यमानस्य द्वित्वगुणस्य स्वानुभवसहकारिणो द्विपृथक्त्वगुणज्ञानोत्पत्ती व्यापार इति विशेषः । अन्ये त्वेकैकगुणालम्बनका बुद्धिरुत्पद्यते, द्वित्वद्विपृथक्त्वयोरुत्पद्यमानतेति मन्यन्ते । ततो द्वित्वद्विपृथक्त्वयोरुत्पादः, द्वित्वगुणज्ञानस्योत्पद्यमानता, ततो द्वित्वगुणज्ञानस्योत्पादः, द्विपृक्त्वज्ञानस्योत्पद्यमानता, अपेक्षाबुद्ध - 15 विनश्यत्ता, ततो द्विपृथक्त्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, द्वित्वगुणज्ञानस्य विनश्यत्ता, अपेक्षाबुद्धविनाशः, द्वित्वद्विपृथक्त्वयोविनश्यत्ता, ततो द्रव्यज्ञानस्योत्पादः, द्विपृथक्त्वगुणज्ञानश्य विनाशः, द्वित्वद्विपृथक्त्वयोविनाशः, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धविनाश इत्यत्र तु विद्यमानस्य द्वित्वगुणस्य द्वे पृथगिति द्रव्यज्ञानस्योत्पत्तावपि व्यापार इति 20 विशेषः । अथ समवेतानामेव गुणकर्मसामान्यानां विशेषणतोपलब्धेः कथं द्विपृथक्त्वादाववर्त्तमानं द्वित्वादि विशेषणमिति चेत्, बाधकोपपत्तेरुपचारेणेत्युक्त पदार्थसङ्करे । तथा च सूत्रं 'गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते ( वै० सू० ) इति, गुणकर्मसु समवेतानां गुणकर्मणामभावात् 25 तदपेक्षं मुख्यज्ञानं नास्तीति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy