SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ व्योमवत्यां षेधार्थमाह *न आशूत्पत्तेः* इति । यदुक्तं क्रमस्यासत्त्वमित्येतन्न, आशुभावित्वेन विद्यमानस्यापि क्रमस्यासंवेदनात् । अथ आशूत्पत्तेः क्रमस्याग्रहणं कस्मिन्नुपलब्धमित्याह भ्यथा शब्दवदाकाशमिति इत्यत्र शब्दज्ञानमाकाशज्ञानं शब्दाकाशसम्बन्धज्ञानञ्चेति 5 त्रीणि ज्ञानान्याशूत्पद्यन्ते इति क्रमस्याग्रहणम्, तथा द्वित्वादिज्ञानोत्पत्तौ आशुभावित्वेनैव क्रमाग्रहणमित्यदोषः । न च ज्ञानानां सहानवस्थानलक्षण एव विरोधे ज्ञानानामाशुभावित्वेनोत्पत्तेः, अविनष्टे हि गुणे द्रव्यज्ञानं भविष्यतीति प्रतिसमाधानमेतदिति वाच्यम्, शीघ्रं कारणसद्भावेन कार्यस्यापि तथाभावात् । अवश्यं गुणबुद्धि10 समकालं गुणविनाशे तदायत्तस्य द्रव्यज्ञानस्यानुत्पत्तिरिति दूषणस्याप्यावृत्तेः । यदि ज्ञानयोः सहाविरोधेनावस्थानं नास्तीति सहानवस्थानं विवक्षितमविवाद एव । वध्यघातकपक्षेऽपि समानो दोष इति चेत्, स्यान्मतम् । ननु वध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? द्वित्वसामान्य15 बुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति । न। समूहज्ञानस्य संस्कारहेतुत्वात् । समूहज्ञानमेव संस्कारकारणं नालोचनज्ञानमित्यदोषः। अथेदानीं सहानवस्थानलक्षणविरोधाद् वध्यघातकपक्षेऽपि समानं दूषणमिति परमतमाशङ्कमान इदमाह *वध्यघातकपक्षेऽपि समानो दोष इति चेत्, 2 स्यान्मतम् अभिप्रेतमिति सङ्ग्रहवाक्यम् । अस्य तु विवरणं *वध्यघातक पक्षेऽपि तहि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः इति । तथाहि, यदि गुणबुद्धिसमकालं गुणविनाशे द्रव्यज्ञानानुत्पत्तिस्तहि वध्यघातकपक्षेऽपि तस्यानुत्पत्तिरेव कथम् ? सामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति ।। ___यथा हि, अपेक्षाबुद्धिद्वित्वं जनयति एवं संस्कारमपीति । ततस्तस्या 25 विनश्यत्ता, द्वित्वसामान्यज्ञानस्योत्पद्यमानता, ततो द्वित्वसामान्यज्ञान स्योत्पादः, गुणज्ञानस्योत्पद्यमानता, अपेक्षाबुद्धेविनाशः, गुणस्य विनश्यत्ता, For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy