SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ गुणवैधयंप्रकरणम् नेन द्वित्वोत्पत्तिाख्यातैव । किंविशिष्टेभ्य इत्याह अनेको विषयो यस्याः सा अनेकविषया, सा चासौ बुद्धिश्च तया सहितान्येकत्वानि तेभ्यः । निष्पत्तिरित्यपेक्षाकारणनिर्देशः । ___अन्ये तु त्रित्वाद्युत्पत्तिरेवात्र सङ्ग्रहवाक्ये विवक्षिता। द्वित्वोत्पत्तिश्चोपरिष्टाद् भविष्यतीति मन्यन्ते । तच्चासत् । त्रित्वाद्य त्पत्तेरप्युपरि सद्भा-" वेनानर्थक्यप्रसङ्गात् । एवञ्च संक्षेपेणोत्पत्तिविनाशकारणे प्रज्ञापिते विशेषाकाक्षितया अज्ञस्य प्रश्नः कथमिति । केन रूपेण उत्पत्तिश्च विनाशश्च भवतीत्याह *यदा बोद्धः* इत्यादि । तथाहि, बुध्यत इति बोद्धा, तस्य बोद्धुरात्मनश्चक्षुषा सह समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सतीत्यनियमं दर्शयति *समाना- 10 समान इति समानजातीययोरसमानजातीययोश्च द्रव्ययोः सन्निकर्षे सतीति । *तत्संयुक्तसमवेतसमवेतैकत्वसामान्य ज्ञानमुत्पद्यत इति । तेन चक्षुषा संयुक्तं द्रव्यं, तत्समवेतमेकत्वगुणम्, तत्समवेतञ्च तदेकत्वसामान्यम्, तस्मिन् ज्ञानमुत्पद्यते पूर्व, विशेषणत्वात् । तथाहि, विशेषणज्ञानमादौ, कारणत्वात्, विशेष्यज्ञानन्तु पश्चात्, कार्यत्वात् । अतएव एकत्वसामान्यज्ञानोत्पत्तौ सत्याम्, एकत्वसामान्यञ्च तत्सम्बन्धश्च, तज्ज्ञानञ्चेति एकत्वसामान्यतत्सम्बन्धतज्ज्ञानानि, तेभ्योऽनेकविषयिण्येका बुद्धिरुत्पद्यते । अनेकश्चासौ विषयश्चेत्यनेकविषयः, सोऽस्या विद्यते इत्यनेकविषयिणी । एका च न विषयभेदेऽपि भिद्यते । कश्चासावनेको विषय इत्याह एक [त्व] गुणयोः' इति । एक [व] 20 गुणश्चैक त्व] गुणश्चेत्येक [त्व गुणयोविषयभू तयोर्यथोक्ता बुद्धिरुत्पद्यते । *एकत्वसामान्यबुद्धेश्च विनश्यत्ता । *ततस्तामपेक्ष्यैकत्वाभ्यां स्वाश्रययोद्वित्वमारभ्यते अत्र च स्वाश्रययोरिति समवायिकारणनिर्देशस्तथा एकत्वाभ्यामित्यसमवायिकारणस्य, तामपेक्ष्यति अपेक्षाबुद्धनिमित्तकारणत्वम् । एकत्वसामान्यज्ञानस्य च विनाशः । ततः पुनस्तस्मिन् द्वित्वसामान्यज्ञानमुत्पद्यते । ततः पुद्वित्वसा 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy