SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाकजोत्पत्तिप्रकरणम् अभिघातस्तु वेगापेक्षः परस्परविभागहेतोरेकस्य कर्मणः कारणम् । नोदनन्तु अविभागहेतोरनेकस्येति वक्ष्यामः कर्माधिकारे । अन्ये तु घटस्यादिव्यणुकं तदारम्भकाः परमाणवः साक्षादिति मन्यन्ते । तत्र कर्मोत्पत्तावणवः समवायिकारणं तत्संयोगोऽसमवायिकारणं वेगादि निमित्तकारणमिति । तेभ्यो विभागास्ते तु द्रव्यारम्भकसंयोगप्रति- 5 द्वन्द्विनः । तत्राप्यसमवायिकारणं कर्म, परमाण्वो: समवायित्वं शेषं निमित्तकारणमिति । *विभागेभ्यः संयोगविनाशाः । तेषां समवाय्यादिकारणानुपलब्धेनिमित्तादेवोत्पत्तिः । न ह्यभावः समवेतः क्वचिदुत्पद्यमानो दृष्ट: । अत एवासमवायिकारणं नास्ति, एकार्थसमवायाभावात् । निमित्तकारणन्तु अन्वयव्यतिरेकाभ्यां व्याप्रियमाणं तदुत्पत्तावुपलब्धम् । संयोगविना- 10 शेभ्यः कार्यद्रव्यं व्यणुकलक्षणं विनश्यतीति । जात्यपेक्षयैकवचनम् । परमाणुषु पूर्वरूपनाशानन्तरं पाकजरूपाद्युत्पत्तिः तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुध्वग्निसंयोगाद् औषण्याक्षात् श्यामादीनां विनाशः, पुनरन्यस्मादग्निसंयोगाद् औषण्यापेक्षात् पाकजा जायन्ते। घटतद्रूपादोनामुत्पत्तिः तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्वयणुकादिक्कमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः । तस्मिन् विनष्टे परमाणुष्वन्यस्मादग्निसंयोगात् श्यामादीनां निवृत्तिः। 20 * पुनरन्यस्मादग्निसंयोगाद् औष्ण्यापेक्ष्यात् पाकजा जायन्ते * तत्र परमाणुः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणम्, उष्णस्पर्शी निमित्तकारणमिति । ___ *तदनन्तरम् रक्ताद्युत्पत्तिक्षणानन्तरम् । उत्पन्नपाकजेष्वणुषु समवेतानि कार्याणि उत्पद्यन्ते । असमवायिकारणमाह *आत्माणुसंयोगात्- 25 अदृष्टापेक्षात् । अदृष्टञ्च केषामित्याह *भोगिनाम् इति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy