SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामान्यवैधयंप्रकरणम २७५ अन्येन योग इति प्रसङ्गनिर्देशे स्ववचनविरोधः । तथाहि अन्ययोगप्रतिषेधे न अनेकवृत्तित्वं भवतीति । अथ सामान्यादिपर्यायोऽयमनेकत्र वृत्तिरिति । तथाप्यनेकवृत्ति त्व] प्रतिषेधोऽनुपपन्नः, सामान्यस्व नित्यत्वैकत्वे सत्यनेकवृत्तित्वलक्षणत्वात् । प्रत्यक्षेण च सामान्यस्य अनेकवृत्तित्वप्रसिद्धेः, तेन बाध्यत्वादनुमानमप्रमाणम् । तथा हि एकद्विबहुषु पिण्डेष्वक्षव्यापारादनुगतज्ञानमुत्पद्यमानं दृष्टम् । न चेदं भ्रान्तम्, प्रत्यक्षागमसंवादेन विसंवादनिवृत्तौ तद्व्याप्तस्य भ्रान्तत्वस्य निवृत्तेरिति । न च अपोहादेवानुगतज्ञानम्, तस्य व्यावृत्तिरूपतायामवस्तुत्वेनाजनकत्वात्, जनकत्वे वा तस्य अर्थक्रियाकारित्वात् वस्तुत्वप्रसङ्गः । अथ व्यावृत्तादन्या व्यावृत्तिर्नेष्यते ? तहि तेषां परस्परव्यावृत्तस्वरूपतया अनुगत- 10 ज्ञानजनकत्वं न स्यात् । यच्चेदम् अगोव्यावृत्तिर्गोत्वम् इत्युक्तम्, तत्र गवां स्वरूपप्रतिपत्तिमन्तरेण ततोऽन्येषामगोरूपतायामप्रसिद्धिः, तदप्रसिद्धौ च न गवां स्वरूपप्रतिपत्तिरित्यन्योन्याश्रयत्वं स्यात् । यदि चैकस्माद् गोपिण्डादन्येषामगोरूपता हि गोपिण्डानामप्यन्येषामगोरूपताप्रसङ्गः, तेषामप्येकस्माद् 15 गोपिण्डादन्यत्वात् । अथ सर्वस्माद् गोपिण्डादन्येषामगोत्वम्, तदसत्, वर्गीकरणनिमित्तासम्भवे सर्वेषां गोपिण्डनामप्रतिपत्तौ ततोऽन्येषां प्रतिपत्तुमशक्यत्वात् । येषाञ्च अनुगतमभिन्नं निमित्तमस्ति तेषां गोस्वरूपप्रसिद्धौ ततोऽन्यव्यावृत्तिः प्रतीयत एव । अथ अर्थक्रियासामान्यादनुवृत्तिप्रत्यय इति चेत्, 20 न, अर्थक्रियाणामपि परस्परं व्यावृत्ततया अनुगतज्ञानाजनकत्वात् । अथ अर्थक्रियाणामनुगतमभिन्नं निमित्तमुपग्राहकमिष्येत, तदेव तहि सामान्यम् । का चेयमर्थक्रिया यत्साम्यादनुगतज्ञानमिति वाच्यम् । यदि वाहादिरूपा ? सा च मनुष्यादावपि सम्भवतीति तत्रापि गौ¥रित्यनुगतज्ञानप्रसङ्गः । न 25 च पक्षे सर्वत्रैतदस्तीत्यनुगतज्ञानाभावप्रसङ्गः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy