________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधर्म्यप्रकरणम्
ग्रीष्मावसाने तु दग्धस्थलीषु प्रथमजलधरधारासम्पर्कात्, न च समानदेशत्वम् । यद् वा जलधरधारासम्पर्काद् भूगतानिलोद्भवे सत्यवयव क्रियाक्रमेण पूर्वद्रव्यनिवृत्तावुत्पन्नपाकैर्चणुकादिप्रक्रमेण द्रव्यान्तरोत्पादे सति गन्धोऽभिव्यज्यत इति । यच्चाभिव्यज्यते सामान्यरूपादि, तद् आश्रयस्थमेवेति दृष्टम्, एवं शब्देऽपि स्यात् । तत्तु नास्तीति व्यक्ति धर्मकत्वाभावः ।
तथा वीणाशब्दाभिव्यञ्जकेन रासभशब्दस्याप्यभिव्यक्तत्वाद् ग्रहणे वीणाशब्दस्य सर्वदानुपलम्भ एव स्यात् । न चैतदस्ति । क्वचिदेव रासभशब्देन वीणाशब्दादिशब्दानामभिभवोपलब्धेः । न चायं नित्यपक्षे अभिभाव्याभिभावकभावो घटते, तीव्रतरादिभेदासम्भवात् । तीव्रस्य च ध्वनेर्ग्रहणान्मन्दस्याग्रहणमभिभवः । न च तीव्रेण व्यञ्जकेनैकस्य ग्रहणादन्यस्याग्रहणमुपपद्यते, व्यञ्जकेषु नियमानुपलब्धेरित्युक्तम् । शब्दप्रत्ययसमानाधिकरणश्चायं तीव्र: शब्दो मन्दः शब्द इति प्रत्यय:, न व्यञ्जकप्रत्ययेनेति कथं तीव्रतरादिर्व्यञ्जकधर्मः । तदेवं तीव्रादिभेदभिन्नत्वात् सुखादिवदनित्यत्वं शब्दानाम् । व्यञ्जकानुपलब्धौ चाभूत्वा भवनस्योपलब्धेः कार्यंत्वादनित्यत्वं घटादिवत् । तथा परमात्मगुणान्यत्वे सति व्यापकविशेषगुणत्वात् सुखादिवत् । तच्चोक्त- 15 माकाशाधिकारे । अनित्यविशेषगुणमाकाशम्, सलिलादिपरमाणुव्यतिरेके सति भूतत्वात् क्षित्यादिवत् । पारिमाण्डल्याधारपरत्वानुमेयपरमात्मान्यत्वे सति समवायिकारणत्वात् क्षित्यादिवदेव ।
अथ गुणत्वे शब्दस्यानुमानम्; न द्रव्यकसंजातीयः शब्दः, श्रोत्रग्रहणयोग्यत्वात्, शब्दत्वादिवत् । गुणः शब्द:, द्रव्यकर्मान्यत्वे सति सत्तासम्बन्धि - 20 त्वात्, रूपादिवत् । यच्चेदम् अर्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दानां नित्यत्वं विज्ञायत इत्युक्तम्, तदसत् अनित्यत्वेऽपि सादृश्योपादाने सत्यर्थप्रतिपत्तेर्भावात् । यत्र यत्र गकारौकारविसर्जनीयानामित्थम्भूतानुपूर्वीमुपलभसे, तत्र तत्र गोत्वविशिष्टोऽर्थः प्रतिपत्तव्यः प्रतिपादयितव्यश्चेति सङ्केतग्रहे सति तथाविधं शब्दमुपलभमानस्तमर्थं प्रतिपद्यते प्रतिपादयति चेति ।
3
Acharya Shri Kailassagarsuri Gyanmandir
तदेवमनित्यत्वे व्यवस्थिते विनाशकारणमाह कार्यकारणोभयविरोधीति । आद्यः शब्दः कार्येण विरुध्यते । अन्त्यस्तु कारणं विरुणद्धि । मध्यगतास्तु कार्येण विरुध्यन्ते कारणञ्च विरुन्धन्तीति ।
३१
For Private And Personal Use Only
२४१
5
10
25