SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकरणम् २३५ कौपीनवाससः, शिखायज्ञोपवीत कमण्डलुभिक्षाकपालादीनाञ्च त्यागिनः । न तेषां धर्मो नाधर्मः, न सत्यम्, न चानृतम् । सर्वसहाः, सर्वसमाः, समलोष्टाश्मकाञ्चनाः । एषां चतुर्णामपि दृष्टं प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादं शुद्धाभिसन्धिञ्चापेक्ष्य आत्ममनः संयोगादसमवायिकारणाद्धर्मोत्पत्तिरिति ॥ अवैधम् Acharya Shri Kailassagarsuri Gyanmandir अधर्मोऽप्यात्मगुणः । कर्त्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी । तस्य तु साधनानि, शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरी तानि हिंसानृतस्तेयादोनि, विहिताकरणम्, प्रमादश्च एतानि दुष्टाभिसन्धिञ्चापेक्ष्यात्ममनसोः संयोगादधर्मस्यो [ त्पत्तिः ? त्पादकानि ] । न परं धर्मोऽधर्मोप्यात्मगुणः । कर्त्तुरहितप्रत्यवाय हेतुरतीन्द्रियो ऽन्त्यदुःखसंविज्ञानविरोधी इति । अतीन्द्रियत्वे सत्यन्त्यदुःखसं विज्ञानविरोधित्वात्, अधर्मः, इतरस्माद् भिद्यते । शेषं पूर्ववत् । तस्य साधनानि शास्त्रे विप्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि । हिंसा प्राणिवधोऽनृतमसत्यं स्तेयं चौर्यम् । आदिपदेनान्येषामपि धर्मसाधन विपरीतानामवरोधः, अवश्यकर्त्तव्यस्य संध्यावन्दनादेरकरणं विहितकालातिक्रमेणाप्यननुष्ठानम्, प्रमादश्चालस्यम् । एतानि निमित्तानि दुष्टाभिसन्धि दुष्टाभिप्रायं चापेच्यात्ममनःसंयोगादसमवायिकारणादात्मन्यधर्मो [ त्पत्तिरिति ? त्पादकानीति । ] अविदुषो रागद्वेषवतः प्रवर्त्तकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहिताद् ब्रह्मेन्द्र प्रजापति पितृमनुष्यलोकेष्वाशयानुरूपे रिष्टशरीरेन्द्रिय विषयसुखादिभिर्योगो भवति । तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योतिस्थानेषु अनिष्टशरोरेन्द्रियविषयदुःखादिभियोगो भवति इत्येवं प्रवृत्तिलक्षणाद् धर्मादधर्मसहिताद् देवमनुष्य तिर्यङ्नारकेषु पुनः पुनः संसारप्रबन्धो भवति । , ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्न षट्पदार्थतत्त्वज्ञानस्याज्ञान - निवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोर्धर्माधर्मयोरनुत्पत्तौ पूर्व For Private And Personal Use Only 5 10 15 20 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy