SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * www.kobatirth.org वैधर्म्यप्रकरणम् विनाशे स्वर्गादिफलं न स्यात् । न च प्रदीपस्येवाभिव्यञ्जकत्वं तत्प्रकाशकत्वं क्रियायाः, तद्भावेऽपि तस्यानुपलम्भात् । अथ यागादिक्रिया धर्मस्य सामर्थ्यमुपजनयतीति चेत् ? तर्हि यत् तत् सामर्थ्यं स एव धर्मः, यत्राश्रितः स चात्मेति संज्ञाभेदमात्रं स्यात् । तथा अमूर्त्तस्यात्मना सम्बन्धाभावात् तत्सम्बन्धित्वेन फलाभाव इत्यलं प्रसङ्गेन । न च बोधात्मकमेव कर्म, व्यतिकानभ्युपगमे बोधरूपतया सर्वत्राविशेषेण जगद्वैचित्र्याप्रसङ्गात् । तस्योत्पत्तिकारणमाह पुरुषान्तःकरणसंयोगादसमवायिकारणादुपजायते । शुद्धाभिसन्धिज * इति अभिसन्धेर्निमित्तकारणत्वं दर्शयति । वर्णाश्रमिणां प्रतिनियतानि साधनानि निमित्तं यस्यासौ तन्निमित्तः । तदेवाह * तस्य तु साधनानि श्रुतिस्मृतिविहितानि ब्राह्मणादयः, आश्रमाश्च ब्रह्मचर्यादयस्तेषाम्, सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणीति । 1 तत्र सामान्यानि धर्मे श्रद्धा, अहिंसा, भूतहितत्वम्, सत्यवचनम्, अस्तेयम्, अनुपधा, ब्रह्मचर्यम्, क्रोधवर्जनम्, अभिषेचनम्, शुचिद्रव्यसेवनम् विशिष्टदेवताभक्तिः, उपवासोऽप्रमादश्च । * तत्र सामान्यानि साधनानि । धर्मे श्रद्धा भक्तिविशेषः कारणम् । 蓉 अहिंसा तु यत्यादेः सर्वदा, अन्यस्य देशविशेषे कालविशेषे चेति । यथा तीर्थे न हनिष्यामि, अमावास्यादौ । भूतहित्वमपि कस्यचित् सर्वदा, कस्यचिद् देशविशेषादाविति । सत्यवचनं धर्मसाधनम् यन्न परेषामनिष्टम् । उक्तञ्च 'न ब्रूयात् सत्यमप्रियमिति । अस्तेयमचौर्यम् । कस्याञ्चिदवस्थायां चौर्येऽपि 20 न दूषणमित्युक्तम् । यथा मुमूर्षोद्विजस्याशनमात्राहरणमिति । अनुपधा पराद्रोहः । ब्रह्मचर्यम् अपत्यसृजः करणस्योपस्थस्य संयमः तच्च कस्यचित् सर्वदा, कस्यचिद् देशकालविशेष इति । क्रोधवर्जनमप्येवम् । अभिषेचनं स्नानम् । शुचिद्रव्याणां सेवनमासनपरिधानाशनैः । विशिष्ट - देवताभक्तिरिति त्रयीप्रसिद्धानुमानावगतदेवताविशेषभक्तिः । उपवासोऽहोरात्रं 25 नैरशनता, कालविशेषादौ धर्मसाधनम् । अप्रमादो विहितानुष्ठाने निरालस्यम् । 學 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * २३१ 5 | वर्णाश्च 10 15
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy