SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१२ व्योमवत्या स्मृतिवैधर्म्यम् लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पटवभ्यासादरप्रत्ययजनिताच्च संस्काराद् दृष्ट श्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिरिति । अथ स्मृतेः कार्यकारणविषयस्वरूपनिरूपणार्थं लिङ्गदर्शनेच्छा[नु स्मरणाद्यपेक्षात् * इत्यादि प्रकरणम्। [* लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षात् । लिङ्गदर्शनञ्च इच्छा च अनुस्मरणञ्चेति तथोक्तानि, तान्यादिर्येषामित्यादिपदेन प्रणिधानादेब्रहणम्, तान्यपेक्षत इति तदपेक्षस्तस्मात् । * आत्ममनसोः संयोगविशेषात् * इत्यसमवायिकारणनिर्देशः । लिङ्गदर्शनेच्छानुस्मरणाद्य10 पेक्षात् * पट्वभ्यासादरप्रत्ययजनिताच्च संस्कारात् * इति निमित्तकारण निर्देशः । * दृष्टश्रुतानुभूतेष्वर्थेषु * इति दृष्ट: प्रत्यक्षेण, श्रुतः शब्देन, अनुभूतोऽनुमानेन । अन्ये तु दृष्टश्चक्षुषा, अनुभूतस्त्वगिन्द्रियेणेति । तत्र लिङ्गं दर्शयति * शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुः - इति । 15 उपयुक्ताल्लिङ्गाद् अनुमेयः शेषः, सोऽनुव्यवसीयते अनेनेति शेषानुव्यवसाय: परामर्शज्ञानम्, तस्य हेतुरविनाभावसम्बन्धस्मरणम्, तथा पदस्मरणाद् वाक्यस्मरणम्, सुखस्मरणादिच्छो दुःखस्मरणाद् द्वेष इति । * अतीतविषया * इति स्वरूपकथनम् । अतीतो विषयो यस्याः सा तथोक्तेति । नन्वयुक्तमेतत्, विद्यमानेऽपि वस्तुनि स्मरणस्य दर्शनादित्यव्याप्तिः, 20 अतिव्याप्तिश्च अनुमानादेरतीतविषयत्वादिति । अथ चोदनैव भूतं भविष्यन्तं विप्रकृष्टादिकमर्थं प्रकाशयति नान्यत् किञ्चन इन्द्रियादिकमिति चेन्न, अनुमानस्यापि अतीताद्यर्थप्रकाशकत्वेनोपलम्भात् । तथा च, मेघोन्नत्या भविष्यति वृष्टिरित्यनुमीयते, नदीपूराच्च विशिष्टाद् उपरिष्टाद् वृष्टिरित्युक्तम् । प्रत्यक्षञ्चात्र अविनाभावग्राहकमभ्युपे25 यम्, अन्यथा व्याप्तिग्रहणाभावेऽनुमानमेव न प्रवर्तेत । न चानुमानेनैवाविना भावग्रहणम्, अनवस्थाप्रसङ्गात् । वर्तमानेन चाविनाभावग्रहणे कथम् अतीता For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy