SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् १९५ अथ कियतां पुनरेवमनपदेशत्वमित्याह * असिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति * इति । * तत्रासिद्धश्चतुर्विधः * इति विभागः । सामान्यलक्षणञ्च आशङ्क्यमानपक्षवृत्तित्वम् अर्थाल्लभ्यते । आशयमाने हि पक्षे वृत्तिः सर्वस्य विशेषणासिद्धादिप्रपञ्चस्यास्तीति पक्षव्यापीदं सामान्यलक्षणम् । न चैवं पक्षावृत्तित्वं तस्य असमर्थविशेषणादि- 5 भेदेषु असम्भवात् । केन रूपेण चतुर्विध इत्याह * उभयासिद्धोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद्धश्चेति * । तत्र * उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति * शब्दे हि सावयवत्वं नित्यानित्यवादिनोर्न प्रसिद्धमिति । * अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति * मीमांसकस्य 10 हि प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कार्यत्वं तावदसिद्धं यावद् अन्यतरपक्षव्युदासद्वारेण प्रमाणतो (न?) व्यवस्थाप्यत इति निश्चीयते। निश्चिते तु पक्षधर्मत्वे ततः साध्यं प्रतिपद्यत एव । * तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ * इति। धूमत्वेनानिश्चितं वाष्पादिकमुपलभमानस्याग्न्यधिगतौ कर्तव्यायां तद्भावासिद्धो धूमभावस्यानिश्चितत्वादिति । * अनुमेया- 15 सिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूप[त्वा?वत्त्वा] दिति । ___सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वाद् अयमाश्रयासिद्धो न तु अभावरूपतमोऽपेक्षया । तस्य तु प्रमाणेन प्रसिद्धेः पक्षीकरणे कृष्णरूपत्वंीवत्त्वं स्वरूपासिद्धं, नत्वाश्रयासिद्धमिति । नन्वेवं विशेषणासिद्धादिप्रपञ्चस्यासङ्ग्रहणादयुक्तोऽयं विभागः ? न, 20 उभयासिद्धेऽन्यतरासिद्धे वा अन्तर्भावात् । तथा च उभयोविशेषणासिद्धो यथा] नित्यः शब्दःअनभिधेयत्वे सतिबाह्येन्द्रियप्रत्यक्षत्वात् । बाह्येन्द्रियप्रत्यक्षत्वे च सति अनभिधेयत्वादिति उभयोविशेष्यासिद्धः । अन्यतरविशेषणासिद्धो यथा] नित्यः शब्दः कृतकत्वे सति अमूर्तत्वात् । एवमन्येष्वपि पुरुषविशेषाभिप्रायेण असिद्धत्वाचूह्यमिति । असमर्थविशेषणासिद्धो [यथा] नित्यः शब्दः प्रमेयत्वे 25 सति कृतकत्वात् । विपर्ययेण असमर्थविशेष्य सिद्ध इति । व्यधिकरणविशेषणासिद्धो [यथा नित्यः शब्दः चाक्षुषत्वे सति कृतकत्वात् । विपर्ययेण For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy