SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० व्योमवत्यां सम्भवोऽप्यविनामावित्वादनुमानमेव । सम्भवः प्रमाणान्तरमिष्टं परैः । तनिषेधार्थं * सम्भवोऽप्यविनाभावित्वादनुमानमेव * इति वाक्यम् । यत्र हि सहस्रं तत्रावश्यं शतं] सम्भव तीत्यविनाभावस्य ग्रहणात् । तथा च सहस्रं स्वसमुदायि शतवत् सहस्रत्वात् 5 पूर्वोपलब्धसहस्रवत् । अभावोऽप्यनुमानमेव । यथा उत्पन्न कार्य कारणसद्भावे लिङ्गम्, एवमनुत्पन्न कार्य कारणासद्भावे लिङ्गम् । कार्यानुत्पादेन कारणाभावः प्रतीयत इत्यभावरूपतयैव प्रमाणान्तरमिति केचित् । तनिषेधार्थं न परं सम्भवः * अभावोऽप्यनुमानमेव * इति । * यथा 10 उत्पन्न कार्य कारणसद्भावे लिङ्गम् * अविनाभावस्य पूर्वमेव ग्रहणात्, तथा * अनुत्पन्न कार्य कारणासद्भावे * कार्यानुत्पादस्य कारणाभावेनाव्यभिचारात् । तथा च कार्यानुत्पत्तिः कारणाभाववती कार्यानत्पत्तित्वाद् उभयाभिमतकार्यानुत्पत्तिवत् । अथ सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या वस्तुनोऽभावस्य ग्रहणमिति 15 प्रमाणान्तरमभावः । यथा हि, भावांशपरिच्छेदे भावस्य व्यापारस्तथा तदभावपरिच्छेदे अभावस्याप्यभ्युपगन्तव्यः । तदुक्तम्, प्रत्यक्षाद्यवतारस्तु भावांशो ग्रह्यते यदा। व्यापारस्तदभावस्याप्यभावांशे जिघृक्षते ।। (श्लो० वा० पृ० ४७८) 20 तथा हि, न प्रत्यक्षेणाभावस्य ग्रहणम्, तेन सम्बन्धाभावात् । सम्बद्धं वर्तमानञ्च गृह्यते चक्षुरादिना । (श्लो० वा० पृ० १६०) प्रत्यक्षाभावादनुमानस्याप्य[प्रवृत्तिः, तस्य सम्बन्धिग्रहणापेक्षित्वात् । __ एवं शब्दस्यापि । उपमानार्थापत्त्योश्चाव्यापारात् प्रमाणपञ्चकाभावेनैव 25 प्रमेयाभावस्य ग्रहणमिति । तदुक्तम्, For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy