SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ।। (श्लो. वा. २।७६) न च ज्ञानस्यार्थपरिच्छेदकत्वं कारणगुणपूर्वकम्, इन्द्रियेषु तदभावात्, तदाह, व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ।। (श्लो. वा. पृ० १५१) यथा हीन्द्रियाणां जन्मव्यतिरेकणापरो व्यापारो नैवं ज्ञानस्य, अनन्तरमेव फलसम्पादकत्वात् । दृष्टञ्च परेणापि विशेषणादिज्ञानस्य विशेष्यादिज्ञान जन्मनि प्रामाण्यमिति । अथोपजातमपि ज्ञानं न कारकपरिशुद्धेर्बोधं विना 10 अर्थपरिच्छेदकत्वभाक् ? तहि तत्रापि कारकपरिशुद्धिग्रहणं वाच्यमित्यनवस्था । तदाह, जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत् कारणशुद्धत्वं न प्रमाणान्तरागतम् ।। (श्लो० वा० पृ० ६०) तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत् समा ।। (श्लो० वा० पृ०६०) तस्यापि कारणे शुद्ध तज्ज्ञानस्य प्रमाणता । तस्याप्येवमितीत्थञ्च न कश्चिद् व्यवतिष्ठते ।। (श्लो० वा० पृ० ६१) अथ विद्यमानमपि प्रमाणस्य प्रामाण्यं न प्रमाणान्तरसंवाद विना प्रमाणव्यवहारकारणम् ? तर्हि प्रमाणपरम्परायामुपक्षीणशक्तविवक्षितज्ञाने 20 प्रमाणव्यवहारो न स्यात् । तदाह, सम्मत्या यदि चेष्येत पूर्वपूर्वप्रमाणता। प्रमाणान्तरमिच्छन्तो न व्यवस्थां लभेमहि ।। (श्लो० वा० पृ०६८) यदि च कस्यचित् स्वत एव प्रामाण्यमिष्येत परम्, आद्यस्यैवास्तु इत्याह, कस्यचित्तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे प्रद्वेषः किं निबन्धनः ॥ (श्लो. वा. पृ. ६९) 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy