________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
व्योमवत्यां
यदनुमेयेनार्थेन देशविशेष कालविशेषे वा सहचरितम्, अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम्, अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव तदप्रसिद्धार्थस्थानुमापकं लिङ्गं भवतीति ।
पूर्वस्य सङ्ग्रहवाक्यस्य स्पष्टार्थं विवरणमाह * यदनुमेयेनार्थेन * इत्यादि। अनुमेयेन सम्बद्धमित्यस्य विवरणमनुमेयेनार्थेन परिच्छेद्यमानेन सहचरितमजहद्वत्तीति । * देशविशेषे कालविशेषे वा * सर्वस्मिन् देशे सस्मिश्च काल इति । प्रसिद्धञ्च तदन्विते इत्यस्य विवरणम् * अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम् - इति । अनुमेयः पक्षस्तस्य धर्मस्तेन तत्समान
धर्मेणान्वितो युक्तः सपक्षस्तस्मिन् सर्वत्रैकदेशे वा प्रसिद्ध इत्यादि नियमः । 10 तदभावे च नास्त्येवेत्यस्य विवरणम् * अनुमेयविपरीते च सर्वस्मिन् प्रमाण
तोऽसदेव * इति । अनुमेयविपरीतोऽनुमेयधर्मरहितो विपक्षस्तस्मिन् सर्वत्रासदेव, 'प्रमाणतः' इति प्रमाणेन साध्यव्यावृत्त्या साधनव्यावृत्तिर्वाच्येत्युपदर्शयति । 'अनुमापकम्' इत्यस्य विवरणम् यदेतदुक्तरूपं लिङ्ग * तदप्रसिद्धार्थस्यानुमापकम् * भवतीति ।
यत्तु यथोक्तात् निरूपाहिलङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीत तदनुमेयस्याधिग लिईन भवतीत्येतदेवाह सूत्रकारः अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः" इति ।
द्वितीयस्य सङ्ग्रहवाक्यस्य विवरणम् * यत्तु यथोक्तात् त्रिरूपाल्लिङ्गात् * इति । अबाधितविषयत्वात् सत्प्रतिपक्षत्वसहितादेकेन धर्मेण द्वाभ्यां वा 20 धर्माभ्यां त्रिभिश्च विपरीतं तदनुमेयस्याधिगमे कर्त्तव्ये लिङ्ग न भवतीति ।
* एतदेवाह सूत्रकारः, * 'अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्च'' (वै. सू.)इति सूत्रितत्वोपदर्शनम् ।
__'अप्रसिद्धोऽनपदेशः' इति बिरुद्धावरोधः, तस्य सपक्षेऽप्रसिद्धत्वात् । 'असन्' इत्यसिद्धः, तस्य हि पक्षधर्मत्वेनासत्त्वात् । 'सन्दिग्धश्चानपदेशः' 25 इत्यनैकान्तिकसङ्ग्रहः । कालात्ययापदिष्टप्रकरणसमयोश्चाप्रसिद्धपदेनैवावरोधः,
तयोरबाधितविषयत्वासत्प्रतिपक्षत्वेनाप्रसिद्धत्वात् । समानतन्त्रन्यायन वा सङ्ग्रहः ।
For Private And Personal Use Only