SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ व्योमवत्यां यत् स्वयमनुभूतेष्वननुभूतेषु वा प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा यच्छुभावेदकं गजारोहणच्छत्रलाभादि तत् सर्व संस्कारधर्माभ्यां भवति । विपरीतञ्च तैलाभ्यञ्जनखरोष्ट्रारोहणादि तत् सर्वमधर्मसंस्काराभ्यां भवति । अत्यन्ताप्रसिद्धार्थेष्वदृष्टादेवेति । तस्य कारणभेदाद् भेदमाह * तत्तु * स्वप्नज्ञानम् । * त्रिविधम् संस्कारपाटवाद् धातुदोषाद् अदृष्टाच्च * इति । संस्कारपाटवात् तावत् स्वप्नज्ञानमाह * कामी * यस्यामङ्गनायामनुरक्तस्तामादृतोऽतिशयेन प्रयत्नयुक्तश्चिन्तयन्, क्रुद्धो वायं शत्रु प्रयत्नाच्चिन्तयन् स्वपिति । * सैव * सुप्तस्य, * चिन्तासन्ततिः प्रत्यक्षाकारा सञ्जायते * नादृष्टात् । धातुदोषात् स्वप्नमाह * वातप्रकृतिः * वातमधिकं निमित्तमपेक्षमाणैः परमाणुभिरारब्धः, वातदूषितश्च तथाविधाहारोपगमाद् आकाशादिगमनानि पश्यति । एवं पित्तप्रकृतिरित्यादावपि द्रष्टव्यम् । अदृष्टकारितं स्वप्नमाह * यत्स्वयमनुभूतेष्वननुभूतेषु * अर्थषु, * प्रसिद्धेष्वप्रसिद्धेषु वा * शुभावेदकमुत्पद्यते स्वप्नज्ञानं तददृष्टात् । तत्र यद् 15 गजारोहणच्छत्रलाभादिशुभावेदकं * तत् सर्वं संस्कारधर्माभ्याम् * उत्पद्यते । संस्कारो हि पूर्वानुभवजनितः, स च स्मृत्युत्पत्तिद्वारेण स्वप्नज्ञानोत्पत्ती कारणम् । विपरीतमशुभावेदकम् * तैलाभ्यञ्जनखरोष्ट्रारोहणादि * तच्चाधर्मसंस्काराभ्यां भवति । अत्यन्ताप्रसिद्धेषु अननुभूतेष्वदृष्टादेव स्वप्नज्ञानमुत्पद्यते । तथाहि, ब्रह्मादिपदारूढ़मात्मानं पश्यतीति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथाप्यतीतज्ञानप्रबन्धप्रत्यवेक्षणात् स्मृतिरेवेति भवत्येषा चतुर्विधा अविद्येति । ___ अथ स्वप्नान्तं स्वप्नज्ञानमेव, आहोस्विदर्थान्तरमित्याह * स्वप्नान्ति25 कम् * स्वप्नान्ते स्वप्नावसाने भवं स्वप्नान्तिकम् । * यद्यप्युपरतेन्द्रियग्रामस्य भवति तथापि * स्मृतिरेवेति । * अतीतज्ञानप्रबन्धप्रत्यवेक्षणात् * इति । 20 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy