SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् १२५ तमसः श्यामरूपसम्बन्धित्वमस्तीति निविषयत्वम् । सविषयत्वाभ्युपगमेऽपि देशकालविशेषितस्य तेजसोऽभावस्यालम्बनत्वाददोषः । तथा स्वाश्रयाद् विनिवृत्ताश्चक्षुरश्मयः स्वात्मीयं गोलकरूपं यथोक्तेन जलनिधिना सदृशवपुरम्बरमित्युपलम्भं जनयन्ति । आदर्शात् प्रतिस्खलितानां स्वमुखग्रहणवदिति । यथा हि, आदर्शात् प्रतिस्खलिताश्चक्षुरश्मयः स्वमुखे विपर्ययमुत्पादयन्ति आदर्शमुखमिति तद्वद् इहापि दूराद् विनिवृत्ताः स्वगोलकमेवाम्बरमित्युपदर्शयन्ति । अनुमानविषयेऽपि वाष्पादिभिर्धूमाभिमतैर्वह्नयनुमानम्, गवयविषाणदर्शनाच्च गौरिति । अनुमानविषयेऽपि विपर्ययमाह * वाष्पादिभिः * इत्यादिना । अत्रादि- 10 पदेन नीहारमशकावर्तादिग्रहणम् । तैः किम्भूतैः * धूमाभिमतैः * धूमरूपतया ज्ञातैरग्न्यनुमानमिति । तथा * गवयविषाणदर्शनाच्च गौरिति * ज्ञानं विपर्ययः । अत्र तु लिङ्गे विपर्ययज्ञानमिन्द्रियजम्, तद्व्यापारजञ्चानुमानिकम् । त्रयोदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययो 15 विपर्ययः । शरीरेन्द्रियमनःसु आत्माभिमानः, कृतकेषु नित्यत्वदर्शनम्, कारणवैकल्ये कार्योत्पत्तिज्ञानम्, हितमुपदिशत्सु अहितमिति ज्ञानम्, अहितमुपदिशत्सु हितमिति ज्ञानम् । ___ इदानीमसद्दर्शनाभ्यासाद् विपर्ययमाह * त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययः * इत्यादिना । त्रयाणां समाहारस्त्रयी 20 रूढ़िवशाद् ऋग्यजु सामलक्षणा गृह्यते। त्रय्येव दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानीत्यादि पदेन [ नैशना ? जैना ] दिदर्शनस्यावरोधः । तेषु * इदं श्रेयः * इति । सर्वं क्षणिक मिति ज्ञानम्, शून्यं निरात्मकमिति ज्ञानं श्रेयःसाधकत्वाच्छ्रेय इति शाक्यदर्शनाभ्यासाद् विपर्ययः । क्षणिकादिपक्षे बाधकस्योक्तत्वात् । एष्वर्थेष्वनेकान्तज्ञानेन दर्शने विपर्ययः । तथे- 25 तरेष्वप्यूह्यः । न च शाक्यादिदर्शनविपरीतत्वात् त्रय्यामपि विपर्यय इति For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy