SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० व्योमवत्यां अथ प्रत्यक्षादस्य विशेषः कथम् ? सामान्यविशेषितस्य धर्मिणः प्रत्यक्षत्वं विशेषलक्षणा[नभिधानात् (?)। अथ किं गोगवयविषाणेषु सामान्यम् ? तुल्यावयवरचनायोगः । यथाभूता हि अवयवरचना गोविषाणे दृष्टा तथा गवयविषाणेऽपीति । ये तु गोविषाणविशेषा गवयविषाणविशेषाश्च पूर्वोप5 लब्धास्तेषामत्रानुपलम्भ इति । अतः सादृश्यमात्रविशेषितं विषाणमुपलभमानस्य विशेषानुपलब्धेस्तत्स्मरणाच्च किं गौः स्यात्, गवयोवेति संशयः । प्रत्यक्षविषयेऽपि स्थाणुपुरुषयोलतामात्रसादृश्यदर्शनात् वन[r? ता] दिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषा नुस्मरणाभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किन्नु खल्वयं 10 स्थाणुः स्यात् पुरुषो वेति । * प्रत्यक्षविषयेऽपि स्थाणुपुरुषयोरूवतामात्रसादृश्यदर्शनात् वक्रता] दिविशेषानुपलब्धितः इति । आदिपदेन काकनिलयनादयः स्थाणौ, शिरः पाण्यादयश्च पुरुषेषु विशेषास्तेषामनुपलम्भादिति। स्थाणत्वमादिर्य स्येत्यादिपदेन पुरुषत्वग्रहणम् । तच्च सामान्यमेव विशेषः। तस्यान15 भिव्यक्तिर्व्यञ्जकस्य शिरः पाण्यादेरनुपलम्भात् । अतस्तद् * अनभिव्यक्तावु भयविशेषानुस्मरणादुभयत्र * स्थाणौ पुरुषे च, * आकृष्यमाणस्यात्मनः प्रत्ययो दोलायते * नैककोटौ व्यवतिष्ठते । स च किंस्वरूप इत्याह * किन्नु खल्वयं स्थाणुः स्यात् पुरुषो वेति * । अथ किमिदमेकं ज्ञानम्, आहोस्विदनेकमिति । यद्यनेकं क्रमेणोत्पद्यते 23 स्थाणुरित्येकं पुरुष इति चान्यत् । तहि यत् तस्मिस्तदिति रूपं तत् सस्यक् ज्ञानम्, विपरीतन्तु मिथ्याज्ञानमिति संशयोच्छेदः ? न, अनेकत्वानभ्युपगमात् । तथाहि, एकमेव किमयं स्थाणुः स्यात् पुरुषो वेति विरुद्धोल्लेखिज्ञानम्, विरुद्धविशेषानुस्मरणोपलक्षितसामग्रीजन्यत्वात् । एकस्तु संस्कारो विशेषानुभवात् पूर्वपूर्वसंस्कारसचिवादुत्पद्यत इत्येकं स्मरणं विरुद्धविशेष25 विषयं जनयत्येव । यद्वा प्रतिनियतविशेषानुभवजनिताः संस्काराः संशयोपभोगप्रापकादृष्टनियमिताः संस्कारमारभन्ते तस्मादनेकविशेषविषयं स्मरणमिति, विषय For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy