________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
व्योमवत्यां
तथा ज्ञानं ग्राहकस्वरूपम्, नीलादि ग्राह्यस्वरूपमित्यनयोः शुक्लपीतयोरिव स्वभावभेदाद् भेदः । अभेदे हि बोधोऽपि नीलस्य ग्राह्यः, नीलञ्च बोधस्य ग्राहकमिति स्यात् । न चैतदस्ति, कारणभेदाच्च नीलाद् बोधोऽर्थान्तरम् । तथाहि, 'बोधाद् बोधरूपता', 'इन्द्रियाद् विषयप्रतिनियमः', 'विषयादाकारग्रहणम्' इति भेदादेषां भेद एव । अथ न कारणभेदः ? किं तहि ? व्यावृत्तिभेदमात्रम् । अबोधव्यावृत्तिर्बोधः, निराकारताव्यावृत्तिः साकारत्वम्, अतद्रूपव्यावृत्तिविषयप्रतिनियम इति । एवं तर्हि नीलावबोधचक्षुषामाकारबोधविषयप्रतिनियमेषु व्यावृत्तिस्वरूपेषु व्यापारा
सम्भवाद् अकारणत्वमेव, व्यावृत्तेरवस्तुरूपत्वात् । अथ व्यावृत्ताद् बोधादबो10 धादिव्यावृत्तिर्नान्या, तहि बोधस्यैकरूपत्वात् कारणभेदप्रतिपादनमसम्बद्धं
स्यात् । अतः कारणभेदादेव नीलतद्बोधयोर्भेदः । चित्रप्रतिभासे तु नीलपीताद्यनेकाकारं विज्ञानं बोधमात्रतायां कथं स्यादिति चिन्त्यम् । तथा हि, तेषामाकाराणामेकबोधतादात्म्यादेकत्वम्, तत्तादात्म्ये वा बोधस्यानेकत्वमिति दुर्निवारः प्रसङ्गः ।
अथ यावन्तस्तत्राकारास्तावन्त्येव ज्ञानानीति ? तर्हि तेषां प्रतिनियताकारत्वात् चित्रप्रतिभासाभावः । न चाकारसद्भावे प्रतिकर्मव्यवस्था प्रमाणम्, अन्यथापि भावात् । तथाहि, सकलकारकजन्यत्वाविशेषेऽपि नीलस्य कर्मरूपतया व्यापारात्तेनैव व्यपदेशो नाकारार्पकत्वादिति । सर्वेषां जनकत्वाविशेषेऽपि अर्थस्यैवाकारार्पकत्वे विशेषहेतुर्वाच्यः । अथार्थस्य कर्मरूपतया 20 व्यापारात् तस्यैवाकारार्पकत्वम् ? तहि कर्मरूपतैवास्तु व्यपदेशनियमे हेतु:,
किमाकारेणासम्भविना कल्पितेनेति । तथाहि, नीलादेरसाधारणाकारार्पकत्वे बोधरूपता न स्यात्, साधारणाकारार्पकत्वे तु प्रतिकर्मव्यवस्थाभाव इति ।
___ अथ समारोपिताकारं विज्ञानमिति नायं दोषः ? तदसत्, आत्मनोऽवस्थितस्याभावे कथं ज्ञानात्मनि आकारः समारोप्यते । न तावदनुत्पन्नस्य विनष्टस्य वा समारोपकत्वम् । न चोत्पत्तिसमकालम्, आत्मलाभकाले समारोपणे व्यापारासम्भवात् । तस्मादाकारसद्भावे प्रमाणाभावादर्थविशेषादेवायं विशेष इति युक्तम् ।
15
25
For Private And Personal Use Only