SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६ व्योमवत्या व्यवहारादर्शनात् । [* रूण्श्मश्रुकार्कश्यवलीपलितादिसान्निध्ये सति -7 रूढश्मश्रु च कार्कश्यञ्च वलयश्च पलितानि च तान्यादिर्येषां तानि, तथोक्तानि, तेषां सान्निध्ये सतीति। रूढश्मश्रुकार्कश्यादि सान्निध्यं सन्निकृष्टबुद्धेः कारणम्, बलीपलितादिसान्निध्यञ्च विप्रकृष्टबुद्धेरिति। * एकस्य द्रष्टुः * इति । यो हि द्रष्टा परत्वापरत्वे द्रष्टुभभिवाञ्छति तस्य । * युवानमवधि कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते * । तां विप्रकृष्टां बुद्धिमपेक्ष्य परेण कालप्रदेशेन योगात् परत्वस्योत्पत्तिरिति । विप्रकृष्टञ्च स्थविरमवधि कृत्वा यूनि एतस्मात् स्थविरादयं सन्निकृष्टः' इति सन्निकृष्टा बुद्धिरुत्पद्यते । * तामपेक्ष्य अपरेण कालप्रदेशेन [सं] योगाद् अपरत्वस्योत्पत्तिरिति * । सन्निकृष्टविप्रकृष्ट10 पिण्डयोः समवायिकारणत्वम्, कालपिण्डयोः संयोगस्य चासमवायिकारणत्वम्, सन्निकृष्टविप्रकृष्टबुद्ध्योश्च निमित्तकारणत्वमिति ।। ननु चायुक्तमेतत् आहारोपयोगे सति पाकजोत्पत्तिन्यायेनैकस्मिन्नहन्युपजातत्वाविशेषेण सन्निकृष्टविप्रकृष्टबुद्धयोरभावात् परत्वापरत्वयोरसम्भवः । नैतदेवम् । जन्मनः प्रभूति एकस्यां शरीरसन्ततावादित्यपरिवर्तनापेक्षया 15 तदुपपत्तेः । तथाहि, एकस्य जनुःप्रभृति भूयास्यादित्यपरिवर्तनानि अपर स्याल्पीयांसीति तदपेक्षया सन्निकृष्टविप्रकृष्टबुद्ध्योर्भावः । स्थविरे भूयांस्यादित्यपरिवर्तनानीति विप्रकृष्टबुद्धिः, यूनि चाल्पीयांसीति सन्निकृष्टबुद्धिः । तदपेक्षया परत्वापरत्वयोरुत्पत्तिरिति शरीरसन्तानस्यादित्यपरिवर्तनापेक्षया घटत एवैतत् । दिक्कृतपरत्वापरत्ववैलक्षण्यञ्चानयोनिमित्तान्तरासम्भवे सति 20 कालकृतत्वमिष्टम् । न हि तस्मादेव निमित्ताद् व्यतिकरः सम्भवतीति । तदेवं परत्वापरत्वयोरुत्पादे व्यवस्थिते सूत्रेणाभिसम्बन्धोपदर्शनञ्च । तथा च सूत्रम् “एकदिककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च" (वै० सू०) इति । एका दिक कालश्च ययोस्तौ तथोक्तौ ताभ्यामिति समवा यिकारणनिर्देशः । एकदिग्भ्यामिति दिक्कृतपरत्वापरत्वापेक्षयैव नियमः । 25 एककालाभ्यां वर्तमानकालाभ्याम् उभयत्रापीति । न हि असद्भ्यां सदसद् भ्याञ्च परत्वापरत्वे जायते । सन्निकृष्टविप्रकृष्टाभ्यामिति समवायिकारणोपसर्जनतया सन्निकृष्टविप्रकृष्टबुद्ध्योनिमित्तकारणत्वमुक्तमेव । तथाहि, For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy