SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् नन्वेतस्मिन् पक्षे कथमुत्तरसंयोगात् तन्त्वाकाशादिविभागस्य निवृत्तिः, तन्तुकर्मणा पारम्पर्येणाप्यजनितत्वात् ? न, विभागजनिते विभागे नियमानुपलब्धेः । अन्ये तु तन्तावुत्पन्ना क्रिया तन्त्वन्तरेणेव तदारम्भकेणाशुनापि विभागं करोत्येव, पारम्पZणांशोरपि कारणत्वात् । आकाशादिश्च पारम्पर्येणापि द्वितन्तुकोत्पत्तावकारणमिति । तन्तुक्रिया अवयवान्तरविभाग- 5 समकालं न तेन विभागं करोतीति । यद् वा अंशुक्रिया अश्वन्तरादिवत् तन्त्वन्तरेणापि विभागमारभते, अंशुकार्येण सहैव कार्यारम्भकत्वात् । अतश्चाश्रयविनाशात् तन्त्वोरेव विभागो विनष्टो न तु तन्त्वन्तरविभागः । तस्मात् तन्त्वाकाशादिविभागो जायते अगुल्याकाशादिविभागाच्छरीराकाशादिविभागवत् । ननु अङगुल्याकाशविभागाद् हस्ताकाशविभाग: कारणाकारणविभागस्य कार्याकार्यविभागारम्भकत्वात्, नत्वङगुले: शरीरं कार्यमिति । अतो यद्यपि अङ्गुल्याकाराविभागस्य शरीराकाराविभागेन सह आकाशवृत्तित्वात् प्रत्यासत्तिरस्ति तथाप्यकारणत्वमेव । तस्माच्छरीरारम्भकत्वाद् उपचारेण हस्त एव शरीरमिति युक्तम् । एतावच्चोदाहरणम्, यथा अङगुल्याकाश-15 विभागात् कारणाकारणविभागाद् हस्ताकाशविभागस्तथा तन्त्वंशुविभागात् तन्त्वाकाशविभाग इति । ___ अथ वा अश्वन्तरविभागोत्पत्तिसमकालं तस्मिन्नेव तन्तौ कर्मोत्पश्चते, ततोऽश्वन्तरविभागात तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा च तन्त्वन्तराद् विभागः क्रियते इत्येकः कालः । ततः संयोग- 20 विनाशात् तन्तुविनाशस्तविनाशाच्च तदाश्रितयोविभागकर्मणोर्युगपद् विनाशः । * अथ वा* इति विभागस्याश्रयविनाशेन विनाशे प्रकारान्तरोपन्यासः, न तु प्रकृताक्षेपसमाधानम्, कालान्तरावस्थायिनि द्रव्ये कर्मणः कालान्तरावस्थायित्वोभावनात् । अतः * अश्वन्तरविभागोत्पत्तिसमकालं 25 तस्मिन्नेव तन्तौ * विभज्यमानांशौ कर्म उत्पद्यते । ततोऽनन्तरम् अंशु For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy