SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ गुणप्रकरणम् गुणसामान्य साधर्म्यम् रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणवत्त्वञ्च । इदानीमुद्देशक्रमेणावसरप्राप्तानां गुणानामितरपदार्थवैधर्म्येण व्यापकं साधर्म्यं पुनः प्रतिनियतानाञ्च स्वभेदान्तराद् व्यावृत्तिमपि दर्शयन्नाह *रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धः इत्यादिप्रकरणम् । गुणत्वेनाभिसम्बन्धस्तदुपलक्षितः समवायः । स च केषाम् ? रूपादीनाम् । तथाप्यादिशब्दस्य अनियतार्थग्राहकत्वान्न ज्ञायते कियतामतः सर्वेषाम् । उत्क्षेपणाद्यवरोधपरिहारार्थञ्च *गुणानाम्* इति । नन्वेवं सर्वेषां गुणानामित्युक्ते व्यभिचाराभावाद् व्यर्थं रूपादीनामिति - पदम् । न । [ गुणत्वाभिसम्बन्धा ] श्रितत्व विशेषणाभ्यां 'सर्वो गुण:' इति दर्शनस्य व्यवच्छेदार्थत्वात् । तथाहि रूपादीनामेव गुणत्वाभिसम्बन्ध: साधर्म्यं नान्येषामिति । न च सांख्याभ्युपगतस्य गुणत्रयस्य व्यवच्छेदार्थं रूपादिग्रहणमिति न्याय्यम्, तस्य प्रमाणानुपलब्धेः । प्रसिद्धञ्च विशेषणेन व्यवच्छिद्यमानं दृष्टं यथा नीलेनानीलमिति । तदेवं रूपादयः, इतरस्माद् भिद्यन्ते, गुणा इति व्यवहर्त्तव्या वा, गुणत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते; न च गुणा इति व्यवह्रियन्ते, न ते गुणत्वाभिसम्बद्धा:, यथा क्षित्यादय इति । शेषं पूर्ववत् । तथा द्रव्याश्रितत्वञ्च साधर्म्य रूपादीनाम् । तच्च सावधारणं विवक्षितम् । अन्यथा हि द्रव्यादीनामपि द्रव्याश्रितत्वाद् अतिव्यापि साधर्म्यं स्यात्, न व्यावृत्तमिति । अवधारणन्तु द्रव्येष्वेवाश्रितत्वमेवेति । द्रव्यकर्मविशेषा द्रव्येष्वेवाश्रिता, न चाश्रिता एवेति । सामान्यसमवायौ तु द्रव्येष्वाश्रितौ, न तु द्रव्येष्वेव, गुणादावपि सद्भावात् गुणास्तु द्रव्येष्वेवाश्रिताः For Private And Personal Use Only 5 10 15 20
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy