SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १४९४ (A) www.kobatirth.org चतुर्धा आत्मना सञ्चेत्यन्ते - क्रियन्ते इत्यात्मसञ्चेत्याः । तद्यथा - घट्टनतः १ प्रपतनतः २ स्तम्भनतः ३ श्लेष्मतश्च४ । तत्र घट्टनतो यथा चक्षुषि रजः प्रविष्टं तेन च चक्षुर्दुः खयितुमारब्धम्, अथवा स्वयमेव चक्षुषि गलके वा किञ्चित् खीलप्रभृति समुत्थितं घट्टयति । प्रपत यथा मन्दप्रयत्नेन चङ्क्रम्यमाणः प्रपतति ततो दुःखायते२ । स्तम्भनतो यथा तावदुपविष्ट आस्ते यावत् पादः सुप्तः स्तब्धो जातः ३ । श्लेष्मणतो यथा पादं तावदाकुञ्चय स्थितो यावत् तत्र वातेन लग्नः। अथवा नृत्यं शिक्षयामीति किञ्चिदङ्गमतिशयेन नामितं तच्च तत्रैव लग्नमिति४ । ते पुनः आत्मसञ्चेतनीया व्युत्सृष्टद्वारे निपतन्ति, न इह । 'ते उप्पन्ने सम्मं सहति खम तितिक्खइ अहियासेइत्ति' चत्वार्यप्येकार्थिकानि पदानि ॥ ३८२४ ॥ तत्र सम्यक्सहनमाह मण-वयण- कायजोगेहिं तिहि ऊ दिव्वमादिए तिन्नि । सम्म अहियासेई, तत्थ उ सुहाए दिट्टंतो ॥ ३८२५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir त्रिभिर्मनो-वाक्काययोगैः प्रत्येकं दिव्यादीन् त्रीन् उपसर्गान् प्रत्येकं चतुर्भेदान् सम्यग् अध्यास्ते सहते । तत्र सहनं द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यसहने स्नुषाया दृष्टान्तः ॥ For Private And Personal गाथा |३८२५-३८३० उपसर्गस * दृष्टान्तादिः १४९४ (A) *
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy