________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम्
दशम
उद्देशकः १६६४ (A)
दर्शने दर्शनप्रभावकशास्त्रग्रहणं कुर्वन्नसंस्तरणे १। ज्ञाने सूत्रम) वाऽधीयानोऽसंस्तरणे २। चारित्रे अनेषणादोषतः स्त्रीदोषतो वा चारित्ररक्षणाय ततः स्थानादन्यत्र गमने ३। तपसि विकृष्टतपोनिमित्तं घृतपानादि ४। प्रवचने प्रवचनरक्षानिमित्तं विष्णुकुमारादेरिव |. वैक्रियविकुर्वणादि ५। समितौ ईर्यासमित्यादिरक्षणनिमित्तं चक्षुःसावद्यचिकित्साकरणादि ६। गुप्तौ भावितकारणतो विकटपाने कृते मनोगुप्त्यादिरक्षणनिमित्तमकल्प्यादि ७। साधर्मिकवात्सल्यनिमित्तम् ८। कुलतः [कुल]कार्यनिमित्तम् ९ । एवं गणकार्यनिमित्तम् १०। सङ्घकार्यनिमित्तं ११ । आचार्यनिमित्तम् १२ । असहनिमित्तं १३ । ग्लाननिमित्तं १४।प्रतिषिद्धबालदीक्षितसमाधिनिमित्तं १५। प्रतिषिद्धवद्धदीक्षितसमाधिनिमित्तम १६। उदके | जलप्लवे १७। अग्नौ दवाग्न्यादौ १८। चौरे शरीरोपकरणापहारिणि १९। श्वापदे सिंह- || व्याघ्रादावापतति यद् वृक्षारोहणादि २० । तथा भये म्लेच्छादिसमुत्थे २१। कान्तारे अल भ्यमानभक्त-पानेऽध्वनि २२ । आपदि द्रव्याद्यापत्सु २३ । व्यसने मद्यपान-गीतगानादिविषये ||४४४६-४४५१ पूर्वाभ्यासतः प्रवृत्तिः २४। तत्र यद् यतनया प्रतिसेवते स कल्पः ॥ ४४४४ ।।४४४५ ॥
आलोचनाक्रमः एतदेवाह
१६६४ (A)
गाथा
१. अयमान मु॥
For Private And Personal