SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री दशम द्वे कले, तृतीयायां तिस्रः कलाः, एवं यावत् पञ्चदश्यां परिपूर्णाः पञ्चदशकलाः। ततो बहुलपक्षस्य प्रतिपदि एकया कलया ऊनो दृश्यते, द्वितीयायां त्रयोदश, तृतीयस्यां द्वादश, व्यवहारसूत्रम् यावदमावास्यायामेकाऽपि न दृश्यते। तदेवमयं मास आदौ ऊनो मध्ये सम्पूर्णोऽन्ते पुनरपि परिहीनः, यवोऽप्यादावन्ते च तनुको मध्ये विपुलः, एवं साधुरपि भिक्षां गृह्णाति-शुक्लपक्षस्य उद्देशकः प्रतिपदि एकाम, द्वितीयस्यां द्वे, तृतीयस्यां तिस्रः, यावत् पञ्चदश्यां पञ्चदश, ततो बहुलपक्षस्य । १४९० (A)/*/ प्रतिपदि पुनश्चतुर्दश, द्वितीयायां त्रयोदश, यावच्चतुर्दश्यामेकाम्, अमावास्यायामुपोषितः । ततश्चन्द्राकारतया चन्द्रप्रतिमा, आदावन्ते च भिक्षायास्तनुत्वाद् मध्ये विपुलत्वाद् यवमध्योपमितमध्यभागा [यवमध्या] तथा चामुमेव यवमध्यां चन्द्रप्रतिमामधिकृत्यान्यत्रोक्तम् एकैकां वर्द्धयेद् भिक्षां शुक्ले, कृष्णे च हापयेत्। भुञ्जीत नाऽमावास्याया-मेष चान्द्रायणो विधिः ॥ १॥ वज्रमध्यायां चन्द्रप्रतिमायां बहुलपक्ष आदौ क्रियते तत एवं भावना-बहुलपक्षस्य प्रतिपदि चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते, द्वितीयस्यां त्रयोदश, तृतीयस्यां द्वादश, यावच्चतुर्दश्यामेका, अमावास्यामेकाऽपि न, ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते, ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ गाथा ३८१३-३८१७ प्रतिमाधारणविधिः |१४९० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy