________________
Shri Mahavir Jain Arapha Kendra
www.kobatirth.org
Acharya Shri
K
hagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१६४५ (A)
शक्नुवन्ति परिपूर्णामुत्तर गुणविशुद्धिं कर्तुम्, ततो यथावस्थिताहार विलोपतो बालमरणमभ्युपगच्छन्ति ॥ ४३७० ॥
तदेवमुक्तं भक्तप्रत्याख्यानम् । इदानीमिङ्गिनीमरणमाहपव्वजादी काउं नायव्वं जाव होतऽवोच्छित्ती । पंच तुलेऊण य सो, इंगिणिमरणं परिणतो उ ॥ ४३७१॥
[जी.भा.५१२,नि.भा. ३९४०] | प्रव्रज्यादिकं प्रव्रज्या शिक्षाग्रहणं व्रतारोहणं अर्थग्रहणम् अनियतं वासं गच्छस्य परिपूर्णस्य निर्वृत्तिम्, गच्छनिर्वृत्तिकरणेन च तीर्थस्याव्यवच्छेदः कृतस्तत आह-तावद् ज्ञातव्यं यावद्भवति तीर्थस्याऽव्यवच्छित्तिः, तत्पर्यन्तं कृत्वा पञ्च च तप:लयिसूत्र-सत्त्वैकत्वबललक्षणानि लयित्वा स इङ्गिनीमरणं परिणतः प्रतिपन्नो भवति ॥ ४३७१ ॥
अथ भक्तपरिज्ञातोऽस्य को विशेषः ? इत्याह
गाथा ४३६७-४३७४ इङ्गिनीमरणम्
१६४५ (A)
For Private And Personal