________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १६२८ (B)
तिविहं तु वोसिरिहिइ सो, ताहे उक्कोसगाई दव्वाइं । मग्गित्ता जयणाए, चरमाहारं पदंसंति ॥ ४३०९॥[जी.भा.४४४,नि.भा.३८९१] |
त्रिविधं मनसा वाचा कायेन सः भक्तं प्रत्याख्यातुकाम आहारं व्युत्त्रक्ष्यति तत उत्कृष्टानि द्रव्याणि यतनया उद्गमादिशुद्धालाभे पञ्चकपरिहाण्या मार्गयित्वा याचित्वा चरममाहारं तस्य प्रदर्शयन्ति ॥ ४३०९ ॥
पासित्तु ताणि कोई, तीरप्पत्तस्स किं ममेतेहिं ? वेरग्गमणुप्पत्तो, संवेगपरायणो होइ ॥ ४३१०॥ [जी.भा.४४५,नि.भा.३८९२]
तानि उत्कृष्टानि द्रव्याणि दृष्ट्वा 'कश्चित् तीरप्राप्तस्य अभ्युद्यतमरणसमुद्रपारमुपागतस्य * ममैतैः किं कार्यम् ?' इत्येवं वैराग्यमनुप्राप्तः संवेगपरायणः सर्वथानिवृत्ताहाराभिलाषो
भवति ॥४३१०॥
गाथा ४३०८-४३१३
आहारस्तोकतादिः
१६२८ (B)
१. इतोऽने जीतकल्प भाष्ये ४४६ गाथा इत्थम्- 'देसं भोच्चा कोइ, धिद्धिकार इमेण किं मेत्ति। वेरग्गमणुपत्तो, संवेगपरायणो होइ॥'
For Private And Personal