SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६१४ (B)| इति। इह यद् याचितस्य द्रव्य(स्य)सम्पादनमसम्पादनं वा सा(तद्) गच्छस्य द्रव्यत: परीक्षणं, यत् पुनः सकषायित्वमकषायित्वं वा ज्ञायते तद् भावपरीक्षणम्। तथा भक्तप्रत्याख्यातुरप्युपनीतसुन्दराहारस्य ग्रहणमग्रहणम् वा द्रव्यतः परीक्षणम् , भावतो गृद्धिअगृद्धिपरिज्ञानमिति। आचार्यस्य तत् परीक्षणमाह - संलेह पुच्छ इत्यादि, यदा आचार्याणामुपस्थितो भवति भक्तप्रत्याख्यानेनाहं तिष्ठामि' तदा स आचार्येण प्रष्टव्यः- 'किमार्य संलिखितं त्वया न वा?' इति, ततः स चिन्तयति पश्यति मे अस्थि-चर्मावशेषं शरीरं तथापि प्रश्नयति संलिखितं न वा ? इति एवं चिन्तयित्वा क्रोधवशात् क्षिप्रमङ्गलिं भक्त्वा दर्शयति'पश्य! यत्र किञ्चिन्मेद्यं मांसं वा द्रक्ष्यसि भवति संलिखितं किं वा नेति,' एवमुक्ते गुरुराह'न ते द्रव्यसंलेखं पृच्छामि, कृशशरीरस्य प्रत्यक्षत एवोपलभ्यमानत्वात्, किन्तु भावसंलेखम्। स चाद्यापि न विद्यते इति तं भावसंलेखं कुरु।' श्रूयतां चात्र दृष्टान्तोऽमात्य-कोङ्कणकविषये ॥ ४२६६॥ साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतो भक्तप्रत्याख्यातुर्गच्छपरीक्षामाह कलमोयण-पयकढियादिदव्वे आणेह मे त्ति इति उदिते । भावे कसाइजंती, तेसि सगासे न पडिवजे ॥ ४२६७॥ [तुला-जी.भा.३९४-५] गाथा ४२६६-४२७० परीक्षा ११६१४ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy