SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org किं कारणं स्वगणादपक्रामणं क्रियते ? सूरिराह- स्थविराणां आचार्याणां संलेखनातपोभिः क्लान्तानाम् इह स्वगणे अभ्युद्यते भक्तपरिज्ञालक्षणे मरणे समुपस्थितानां शिष्या आचार्यानुरागेण रोदन - क्रन्दनादीनि कुर्युः । रोदनादिकं च तेषामाकर्ण्य अश्रुप्रपातं च दृष्ट्वा तेषामुपरि कारुण्यमुपजायते । ततो [ ध्यान ] व्याघातः ॥ ४२१२ ॥ दशम उद्देशकः १५९८ (A) Acharya Shri Kailashsagarsuri Gyanmandir अन्यच्च सगणे आणाहाणी, अप्पत्तिय होइ एवमादीयं । परगणे गुरुकुलवासो, अप्पत्तियवज्जितो होइ ॥ ४२१३ ॥ [ जी.भा.३३५] यो गणधरः स्थापितस्तस्याऽऽज्ञां केचित् कुर्वन्ति केचिन्न कुर्वन्ति, तथा केषाञ्चिदुपकरणनिमित्तमप्रीतिः, आदिशब्दाद् गणभेदो बालादीनामुचिताद्यकरणदर्शनमित्यादिपरिग्रहः, तत एवं स्वगणे आज्ञाहानिरप्रीतिरित्येवमादिकं ध्यानव्याघातकारणमुपतिष्ठते ततः परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते, यत एवं गुरुकुलवास आसेवितो भवति । किंविशिष्टः ? इत्याहअप्रीतिवर्जितः अप्रीतिश्च समस्ताऽपि परिहृता भवतीति भावः ॥ ४२१३ ॥ अप्रीत्यादिकं यथा स्वगणे भवति तथा दर्शयति For Private And Personal गाथा ४२१३-४२१८ निर्व्याघातिममरणविधिः १५९८ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy