________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५९६ (A)
तत् सपराक्रममपराक्रमं च मरणमेकैकं द्विविधम्- निर्व्याघातं१ व्याघातंर च । तत्र व्याघातो नाम-यथा अच्छभल्लेन कर्णावोष्ठौ च खादितौ, अथवा रोगेण व्याघातः, ततो मरणं प्रतिपद्यते। निर्व्याघातं यथोक्तव्याघातरहितम्। व्याघातोऽपि च द्विविधः कालातिचार इतरश्च। कालमतिचरति- अतिक्रामतीति कालातिचारः कालसहः, यतश्चिरेण मरणम् , यथा पूतिगोनसेन दष्टस्य तं दष्टकालमतीत्य विंशतिरात्रिन्दिवादिषु मरणम्१ । इतर:कालानतिचारः, यत् तद्दिवसमेव-मर्तुकामो भक्तं प्रत्याचष्ट इति ॥ ४२०६॥
तं पुण अणुगंतव्वं, दारेहि इमेहिं आणुपुव्वीए। गणनिसिरणादिएहिं, तेसि विभागं तु वोच्छामि ॥ ४२०७॥ [जी.भा.३२८]
तत् पुनः निर्व्याघातिमं मरणम् एभिः वक्ष्यमाणैर्गणनिसिरणादिभिरैः आनुपूर्व्या क्रमेणानुगन्तव्यम्। तेषां च द्वाराणां विभागं वक्ष्यामि ॥ ४२०७ ॥
तमेव वक्तुकाम आहगणनिसिरणा१ परगणे२, सिति३ संलेह४ अगीय५ असंविग्गे६ । | एगा७ऽऽभोगण८अन्ने९, अणपुच्छ१० परिच्छ११ आलोए१२॥ ४२०८॥
गाथा ४२०७-४२१२ निर्व्याघातिममरणविधिः
|१५९६ (A)
For Private And Personal