SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् दशम उद्देशकः १५५२ (A) www.kobatirth.org तदेवं यथा श्रुतज्ञानिनोऽपि जानन्ति तथा प्रतिपादितम् । अधुना शोधिविधिमाहआगमतो ववहारं, पर सोच्चा संकियम्मि उ चरित्ते । आलोइयम्मि आराहणा अणालोइए भयणा ॥ ४०२९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir आगमतः प्रत्यक्षज्ञानी परोक्षज्ञानी वा परे परस्मिन् व्यवहारं करोति परस्याऽऽलोचनां श्रुत्वा, नान्यथा । तत्र यदि कलुषितचारित्रतया न सम्यगालोचयति, किन्त्वालोचनामर्यादामतिक्रम्य वर्त्तते तदा शङ्कितमिति वा भिन्नमिति वा कलुषितमिति वा एकार्थम् । [ एतादृशे ] चारित्रे सति न सम्यगनेनाऽऽलोचितमिति ज्ञात्वा तं ब्रूते- 'अन्यत्र गत्वा शोधिं कुरु' । यदि पुनः सम्यगालोचयति तदा ददाति प्रायश्चित्तम् । अथ यदि प्रत्यक्षागमज्ञानिनः परोक्षागमज्ञानिनो वा सर्वभावविषयपरिज्ञानं ततः कस्मात् तस्य पुरत आलोच्यते ? किन्तु तस्य समीपमुपगम्य वक्तव्यम्—'अपराधान् मे भवन्तो जानते तस्य शोधिं प्रयच्छत' । तत आह- आलोइयम्मी त्यादि। आलोचिते बहुगुणसम्भवतः सम्यगाराधना भवति, अनालोचिते आराधनाया भजना विकल्पना-कदाचिद् भवति कदाचिन्नेति । एतच्चाग्रे भावयिष्यते ॥ ४०२९ ॥ तत्र “ आगमतो ववहारं पर सोच्चे" ति व्याख्यानयति 44 For Private And Personal ܀܀ गाथा ४०२९-४०३४ प्रायश्चित्तविधिः १५५२ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy