SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३६१ (A) ܀܀܀܀܀ www.kobatirth.org तयोः पितापुत्रयोः मध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्याभवति अथवा द्वावपि प्रभू ताभ्यां द्वाभ्यामपि सम्भूय यस्य दत्तस्तस्याऽऽभवति, यस्य तु प्रतिषिद्धस्तस्य नाऽऽभवति । अथ अप्रभुणा दत्तं गृह्णाति, गाथायां सप्तमी तृतीयार्थे तदा तस्य प्रायश्चित्तं चत्वारो लघवस्तथा आज्ञादयो दोषाः । यच्च एकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यम् । एकतरप्रद्वेषतो नाम-यः प्रभुः स संयतस्य वोपरि प्रद्वेषं यायात् येन वा अप्रभुणा सता दत्तस्तस्य ॥ ३४३४ ॥ अहवा दुन्नि वि पहुणो, ताहे साहारणं तु दोण्हं पि । विपरिणामादीणि उ, सेसाणि तहेव भावेज्जा ॥ ३४३५ ॥ साम्प्रतमुपसंहारमाह— Acharya Shri Kailassagarsuri Gyanmandir अथवा द्वावपि पितापुत्रौ प्रभू द्वाभ्यामपि च पृथक् पृथक् द्वयोः सङ्घाटकयोरनुज्ञातस्तदा तयोर्द्वयोरपि सङ्घाटकयोः साधारणमाचक्षते संस्तारकम् । तदेवं यथाभावे विशेषो दर्शितः, शेषाणि तु विपरिणामादीनि पञ्चापि द्वाराणि तथैव भावनीयानि यथा प्रागभिहितानि ॥३४३५ ॥ For Private and Personal Use Only गाथा ३४३१-३४३७ संस्तारके आभवद्व्यवहारः | १३६१ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy