SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३५५ (A) शेषाणि यथाभावादीनि चत्वारि द्वाराणि यावद् व्यवच्छिन्नद्वारं यथा दृष्टे दृष्टद्वारे पूर्व भावितानि तथा योजयेत्, तद्यथा- एकेन सङ्काटकेन भिक्षामटता क्वापि संस्तारको दृष्टा याचितश्च परं न लब्धः, द्वितीयसकाट को यथाभावेन तत्र गत्वा तं संस्तारकमानयति स पूर्वसङ्घाटकस्याऽऽभवति न येनाऽऽनीतस्तस्य । अन्ये तु ब्रुवते-द्वयोरपि सङ्घाटकयोराभवनमधिकृत्य साधारण इति, गतं यथाभावद्वारम्। अधुना विपरिणामद्वारमुच्यते- गुरुसमीपे विकट्यमानमन्यस्य वा सङ्घाटकस्य कथ्यमानं याचितमलब्धं संस्तारकं [श्रुत्वा तत्र गत्वा संस्तारकस्वामिनं विपरिणमयति यथा यः संस्तारकोऽमुकेन साधुना याचितः, तं] मह्यं सम्प्रति देहि', अत्रापि पूर्वस्यैव सङ्घाटकस्य स आभवति न येनाऽऽनीतस्तस्य। गतं विपरिणामद्वारं, सम्प्रति धर्मकथाद्वारमुच्यते- अग्रेतनसङ्घाटकेन याचिते अलब्धे वान्यः सङ्घाटकस्तत्र गत्वा तं संस्तारकस्वामिनं धर्मकथाकथनेन समाकर्ण्य याचते संस्तारकं, स तथालब्धानीतस्सन् पूर्वसङ्घाटकस्याऽऽभवति न येन पश्चादानीतस्तस्येति । गतं धर्मकथाद्वारमधुना व्यवच्छिन्नभावद्वार-मुच्यते प्रथमसङ्काटकेन संस्तारको याचितो न लब्धस्ततस्तद्विषये भावो व्यवच्छिन्नो गुरुसमीपे च गत्वा तथैवालोचितं, यथा- 'अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न लब्धः स तिष्ठत, द्वितीयं गाथा ३४१४-३४१९ संस्तार कमार्गणे | आभवनादिः १३५५ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy