________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः १४६८ (A)
एवमेक्कक्कियं भिक्खं, छुभेजेक्क्क सत्तगे । गेण्हती अंतिमे जाव, सत्त सत्त दिणे दिणे ॥ ३७६३ ॥
प्रथमायां प्रतिमायां सप्त सप्तका भवन्ति । तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति। द्वितीये सप्तके प्रतिदिवसे द्वे द्वे भिक्षे । एवं तृतीयादिषु सप्तकेष्वेकैकेषु एकैकां भिक्षामधिकां प्रक्षिपेत्, यावदन्तिमे सप्तके दिने दिने सप्त सप्त भिक्षा गृह्णाति। इयमत्र भावना-तृतीये सप्तके प्रतिदिवसं तिस्रस्तिस्रो भिक्षा गृह्णाति, चतुर्थे चतस्रश्चतस्रः, पञ्चमे पञ्च पञ्च, षष्ठे षट् षट्, सप्तमे सप्त सप्तेति ॥ ३७६२ ॥ ३७६३॥
अत्रैव प्रकारान्तरमाहअहवा एक्कक्कियं दत्तिं, जा सत्तेक्केक्कसत्तए । आदेसो अत्थि एसो वि, सिंहविक्कमसन्निभो ॥ ३७६४॥
अथवा एष द्वितीयोऽप्यादेशोऽस्ति । यथा एकैकस्मिन् सप्तके प्रत्येकं प्रथमदिनादारभ्य प्रतिदिवसमेकैकां[भिक्षां] वर्धयेत् यावत् सप्तमे दिवसे सप्त। इयमत्र भावना-प्रथमे सप्तके प्रथमे दिवसे एकां भिक्षां गृह्णाति, द्वितीये द्वे, तृतीये तिस्रः, चतुर्थे चतस्रः, पञ्चमे पञ्च, षष्ठे
गाथा ४३७६२-३७६७ भिक्षुप्रतिमायां भिक्षासंख्या
|१४६८ (A)
For Private and Personal Use Only