SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४५५ (B) सागारियम्मि पगते, साधारणमो य समणुवत्तंते। ओसहि-फलसुत्ताणं, वंजणनाणत्ततो जोगो॥ ३७१७ ॥ सागारिके पूर्वसूत्रेभ्यः प्रकृते साधारणे च समनुवर्तमाने तत्प्रस्तावमुपजीव्य औषधिफलसूत्राणामुपनिपातः कृतः । यद्येवमयमर्थः पूर्वसूत्रेभ्य एव गत इति किमर्थममून्युपात्तानि? इति, अत आह-व्यञ्जननानात्वात् । किमुक्तं भवति? पूर्वं शाला अधिकृत्य कल्प्याऽकल्प्यविधिरुक्तः, इदानीं तु तान्येव व्यञ्जनान्यधिकृत्य स उच्यते, ततो व्यञ्जनैर्नानात्वाद् भेदाददोषः । एष योगः सम्बन्धः ॥ ३७१७॥ अस्य व्याख्या सागारिकस्य शय्यातरस्य औषधयः गोरसाद्याः संस्तृताः साधारणाः, तस्मात् तन्मध्याद् | दापयति सूपकारः, नो कल्पते से तस्य साधोः प्रतिग्रहीतुम्॥ तथा सागारिकस्यौषधयः असंस्तृता असाधारणाः तस्माद् दापयति, एवं से तस्य कल्पते प्रतिग्रहीतुम्॥ एवमाम्रफलसूत्रद्वयमपि भावनीयम्॥ ३७१७॥ १. गोरसवत्याम्-पु.प्रे.पाठान्तरम्॥ गाथा ३७१३-३७१९ औषधादिषु साधारणासाधारणयोः कल्प्याकल्प्यम् |१४५५ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy