SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४३२ (A) उवहय उग्गहण लंभे, उग्गहण विगिंच मत्तए भत्तं । अप्पजत्ते तत्थ दवं उग्गहभत्तं गिहिमत्तेण ॥ ३६५६ ॥ अपहुप्पंते काले, दुल्लभदवऽभाविते य खेत्तम्मि । मत्तगदवेण धोवइ, मत्तगलंभे वि एमेव ॥ ३६५७ ॥ उपहतस्य असाम्भोगिकस्यावग्रहणस्य पतद्ग्रहस्य अवग्रहलाभे साम्भोगिकपतद्ग्रहलाभे विवेचनं परिष्ठापनं कर्त्तव्यम्। एवं च तस्य पतद्ग्रहः साम्भोगिको मात्रकमसाम्भोगिकं, तत्र | यदसाम्भोगिकं तस्मिन् भक्तं ग्राह्यं यच्च साम्भोगिकं तत्र पानीयं, ततो मात्रके तेन भक्तं ग्राह्यं पश्चात् पतद्ग्रहपानीयेन तस्य कल्पो दातव्यः । यदि मात्रके गृहीतेन भक्तेन न संस्तरति तदा अपर्याप्ते असंस्तरणे तत्र मात्रके द्रवं गृह्णाति, अवग्रहे पतद्ग्रहे भक्तं तत्र भुक्त्वा गृहस्थभाजनेन (भोज्यं) पानीयमानीय पतद्ग्रहस्य कल्पो देयः । अथ यावता कालेन गृहस्थात् पानीयमानीयते तावान् कालो न प्राप्यते दुर्लभं वा तत्र द्रवं ततो न यतस्ततो गृहस्थेभ्यो द्रवं लभ्यते, यदि वा तत्क्षेत्रमभावितं संयतैः अतो गृहस्था न ददति भाजनं यत्र पानीयं गृह्यते तदा मात्रकगृहीतेनैव पानीयेन पतद्ग्रहो धाव्यते प्रक्षाल्यते तथापि स नोपहन्यते। एवमेव अनेनैव प्रकारेण सूत्र १७ गाथा ३६५६-३६६० | ऊनोदरतादि स्वरूपम् १४३२ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy