SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०२ (A) | एवं युष्मदुक्तप्रकारेण चिह्नकरणे वातवशात् शुद्धमपि वक्रैकद्विकभङ्गतोऽशुद्धं भवति अशुद्धमपि वातवशेन वक्रत्रिकभावतः शुद्धं भवति। पात्रमपि वातवशेन एकद्विकचीवरापगमे शुद्धमप्यशुद्धं भवति, अशुद्धमपि वातवशेनान्याऽऽगन्तुकचीवरखण्डसमागमे शुद्धम्, तस्मादयं विधिस्तत्र कर्त्तव्यः- मूलोत्तरगुणशुद्धे वस्त्रे त्रयो ग्रन्थयः कर्त्तव्याः, पात्रे तिस्रो रेखाः, उत्तरगुणैर शुद्धे वस्त्रे द्वौ ग्रन्थी, पात्रे द्वे रेखे, मूलगुणैरशुद्धे वस्त्रे एको ग्रन्थिः पात्रे एका रेखा ॥३५६७॥ अद्धाण निग्गयादी, उवएसाऽऽणयण पेसणं वा वि। अविकोविते अप्पगणगं, दड्डे भिन्ने विवित्ते य ॥ ३५६८॥ अध्वनि मार्गे निर्गता अध्वनिर्गताः, आदिशब्दाद् अशिवादिभिर्वा कारणैर्निर्गताः परिगृह्यन्ते, तेषामुपकरणे दग्धे वह्निना भस्मीकृते भिन्ने वा विविक्ते वा विस्मरणतः पतिते | वास्तव्यास्तान् अध्वनि निर्गतादीन् ब्रुवते- 'अस्माकमुद्धरितानि वस्त्राणि न सन्ति केवलमस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते तान्यानीय गृह्णीथ' एवमुक्ते तेऽपि प्राघूर्णका ये | गीतार्थास्तान् प्रेषयन्ति, वास्तव्या अपि च तेषां चिह्नान्युपदिशन्ति यथा गर्तासमीपे, गिरिसमीपे, तरुसमीपे, तडाकसमीपे, कूपसमीपे इत्यादि। आणयणमिति। अथैवं चिह्ने कथितेऽपि ते गाथा ३५६८-३५७२ परिष्ठापने चिह्नकरणादिः |१४०२ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy