________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमाचार्येणोक्ते राज्ञा यो विषमकरचरणादिना अविनीतदर्शनः श्रमण: स प्रदर्शित 'एष व्रजतु' 'कया दिशा गङ्गा वहतीति' आचार्येण स प्रेषितः । स आचार्यानापृच्छ्य तत्र गत्वा ततः प्रत्यागत्य ऐर्यापथिक्याः कायोत्सर्गं कृत्वा गुरोः पुरत आलोचयति ॥ २५३५ ।।
श्री व्यवहार-14 सूत्रम्
षष्ठ उद्देशकः १०८१ (B)|
कथमित्याहआदिच्चदिसालोयण, तरंगतणमाइया य पुव्वमुही । मा होज्ज दिसामोहो, पुट्ठो वि जणो तहेवाह ॥ २५३६॥ भगवन् ! युष्मत्पादानापृच्छ्याहं गङ्गातटं गतः, तत्र च गत्वा सूर्यं निर्ध्यातवान्, यत | आदित्याद् दिग्विभागः सम्यक् ज्ञायते, एवमादित्यदिगालोचनं कृतम्। तथा तरङ्गैस्तृणादीनि पूर्वाभिमुखाण्युह्यमानानि दृष्टानि, तत्र कदाचित् दिग्मोहोऽपि स्यात् ततो मा भूद् दिग्मोह इत्यन्योऽपि जनस्त्रिसङ्ख्याकः पृष्टः, सोऽपि तथैवाह-यथा पूर्वाभिमुखी गङ्गा वहतीति। एतच्च राज्ञा प्रत्ययिकप्रच्छन्नपुरुषैः परिभावायितं, तैरपि तथैव कथितम् ॥ २५३७॥
गाथा २५३२-२५३६ लोकोत्तरविनयस्य श्रेष्ठत्वम्
१०८१ (B)
ततो राजा प्राह
For Private And Personal Use Only