________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम
उद्देशकः १३२२ (A)
अह पुण एगपएसे, भणेज अच्छह तहिं न मायति । वक्कइय बेंति इत्थं, अच्छह नो खित्त भंडेणं ॥ ३३१४॥
अथ स पूर्वस्वामी भणेद, यथा 'यूयमस्मिन्नेकप्रदेशे तिष्ठथ' तत्र च साधवो न . मान्ति, ततोऽमातः साधून् दृष्ट्वा वक्रयिकोऽनुकम्पया ब्रूते-'अत्र तिष्ठथ यूयं न किं नोऽस्माकं भाण्डेन क्षिप्तेन प्रयोजनम्' ॥ ३३१४ ॥
तहियं दोवि तरा ऊ, अहवा गेण्हेज्जऽणागयं कोई । दुल्लभअच्चग्यतरं, व नाउ तहिं संकमइ तस्स ॥ ३३१५॥ तत्रानन्तरोक्ते प्रकारे द्वावपि शय्यातरौ, अथवा कोऽपि चिन्तयति यदा भाण्डं नेष्यति
वक्रयसालायां तदा बहवः क्रयिका भविष्यन्ति ततोऽत्यर्घतरा महार्घतरा शाला भविष्यति। यदि वा बहुकेनापि वसने मूल्येन दुःखेन लप्स्यते, तद् दुर्लभामत्यर्घतरां वा शालां ज्ञात्वा अनागतं साधूनामनागमनकाले |
सामाचरी एव भाटकप्रदानेन गृह्णाति। एतच्च साधुभिरागतैतिं यथेयं शाला भाटकेनामुकस्यायत्ता जाता,
४१३२२ (A) ततस्तं गत्वा याचन्ते ॥ ३३१५ ॥
गाथा |३३१४-३३२०
For Private And Personal Use Only