SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः + १३१५ (B) अपद्वारिकां गृहं वा यत् शय्यातरो वक्रयेण प्रयोजयति तत्र स्थाने तदेव पूर्वोक्तं प्रायश्चित्तम्। यतो वक्रयेण प्रयुक्ते तत्र गृहादौ बलादकाण्डनिष्काशने सूत्रार्थव्याघातः रात्रौ च निष्काशने च श्वापदस्तेनैर्विनाशः। अन्यवसत्यलाभे भिक्षागतादिनिष्काशने वा ध्रुवा लोके गर्दा। एतच्च सर्वं प्रागेव भावितमिति न भूयो भाव्यते ॥ ३२९१ ॥ एगदेसम्मि वा दिने, तन्निस्सा होज्ज तेणगा । रसालदव्वगिद्धा वा, सेहमादी उ जं. करे ॥ ३२९२॥ शालाया अपद्वारिकाया गृहस्य वा एकदेशे दत्ते अन्तरा कटके प्रक्षिप्ते यदि तिष्ठन्ति | गाथा तदा तन्निश्रया संयतनिश्रया स्तेनका चौरा भवेयुः। संयतेषु कायिकभूमिं गतेषु स्तेनाः ३२८९-३२९२ प्रविश्य गृहस्थानां भाण्डकमपहरेयुः, अथवा रसालं रसवत् यत् तत्र द्रव्यं तद् गृद्धाः | वक्रयिकशैक्षकादयो वा यदकृत्यं तत् कुर्युः [चोरयेयुरित्यर्थः] । ततो गृहस्थेन संयता शक्यन्ते। शालादौ यथा- नूनमेतैरस्मद्भाण्डमपहृतम्। अथवा एतेषां द्वारेण स्तेनैरपहतं, यदि वा एतैरेव संयतैः ।: प्रायश्चित्तादिः कस्यापि दुःस्थितस्य सम्प्रदत्तमिति । एवं शङ्कायां स विनाशं वा कुर्यात् । यदि वा राजकुलेऽन्यत्र वा नीत्वा[शिक्षा प्रदापयेत् यदि वा] ग्रामबृहत्पुरुषपार्श्वे कर्षणम्। तत्र च भूयसी जनगति १३१५ (B) ॥ ३२९२ ॥ वसने For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy