SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः १३१४ (B) सागारिकतया परिहार्यः परिहर्त्तव्यः । अथ तेन पूर्वस्वामिना सागारिकेण सर्वमपि भाटकेन प्रदत्तं ततो न किमपि वदेत्, केवलमवक्रयिको वदेत्- अस्मिन् अस्मिन् अवकाशे श्रमणाः निर्ग्रन्थाः परिवसन्तु, तदा अवक्रायिक: सागारिकः शय्यातर इति परिहार्यः परिहर्त्तव्यः। अथवा द्वावपि वदेयातां यथा- पूर्वस्वामिनोक्तमेतावत्येकदेशे श्रमणाः सन्तु, तावत्यमातः साधून् दृष्ट्वाऽवक्रयिको ब्रूयाद्-एतावति मदीयेऽपि प्रदेशे तिष्ठन्तु। एवं विक्रयसूत्रमपि भावनीयम्। तदा द्वावपि तौ सागारिकौ शय्यातरौ इति परिहार्याविति सूत्रद्वयाक्षरार्थः, सम्प्रति भाष्यविस्तर: सूत्र २२ गाथा वक्कइयसालठाणे, चउरो मासा य हवंतऽणुग्घाया । ३२८९-३२९२ दियरातो असिवावण, भिक्खगते भुंजणगिलाणे ॥ ३२९०॥ वक्रयिकशालादौ वसने वक्रयेण कियत्कालं भाटकप्रदानेन निवृत्ता वाक्रयिकी, सा चासौ शाला च वाक्रयिक- || | प्रायश्चित्तादिः शाला, तद्रूपे स्थाने, शालाग्रहणम् उपलक्षणं तेनापद्वारिकास्थाने वा गृहे वा इत्यपि द्रष्टव्यम्, IN यदि तिष्ठन्ति साधवस्तदा तेषां प्रायश्चित्तं चत्वारो मासा अनुद्घाता गुरवो भवन्ति । यतस्तत्र | १३१४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy