________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम उद्देशकः
१२७२ (B)
वेलां प्रतीक्षमाणो निविष्टस्तिष्ठति इतरोऽपि दण्डधारी युगमात्रान्तरितस्तिष्ठति। तौ चैवं द्वावपि तिष्ठतो द्वे द्वे दिशौ निरीक्षमाणौ ॥ ३१४९ ॥
पुनः कथम्भूतावित्याहसज्झायमचिंतेता, कविहसिए विज्जुगज्जि-उक्काए । कणगम्मि य कालवहो, दिढे अदिढे इमा मेरा ॥३१५०॥
प्रत्येकं द्वे द्वे दिशौ निरीक्षमाणावुपयुक्तौ स्वाध्यायमचिन्तयन्तौ अननुप्रेक्षमाणौ तिष्ठतः। यदि स्वाध्यायमनुप्रेक्षेते तदा कालवधः। दिशो निरीक्षमाणौ च यदि कपिहसितं शृण्वतः, कपिहसितं नाम नभसि विकृतरूपस्य वानरसदृशमुखस्य अट्टहासः, विद्युतं वा पश्यतो गर्जितं वा समाकर्णयतः, उल्कां वा निरीक्षेते तदा कालवधः। कनकेऽपि च वक्ष्यमाणसङ्ख्याके निपतिते कालवधः । एवं तावत् दृष्टे । अदृष्टे पुनरियं वक्ष्यमाणा मर्यादा सामाचारी ॥३१५०॥
गाथा |३१४८-३१५४ कालग्रहणविधि:
.
.
१२७२ (B)
१. कपिहसितं नामा विरलवानरमुखहसितम्-ओघ. नि. टीका गा. ६४३॥
For Private And Personal Use Only