________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
व्युद्ग्रहे परस्परविग्रहे दण्डिकादीनाम्,आदिशब्दात् सेनापत्यादीनां च परस्परं विग्रहे अस्वाध्यायः । इयमत्र भावना-द्वौ दण्डिकौ सस्कन्धावारौ परस्परं सङ्ग्रामं कर्तुकामौ यावन्नोपशाम्यतस्तावत् स्वाध्यायः कर्तुं न कल्पते। किं कारणम् इति चेद् ? उच्यते-तत्र वानमन्तराः कौतुकेन स्वस्वपक्षेण समागच्छन्ति ते छलयेयुः,भूयसां च लोकानामप्रीतिः वयमेवं भीता वर्तामहे कामप्यापदं प्राप्स्याम एते च श्रमणका निर्दुःखं पठन्ति ॥ ३१०५ ॥
सप्तम
उद्देशक:
१२५७ (B)IA
अत्रादिशब्दस्य व्याख्यानार्थमिमां गाथामाहसेणाहिव भोइमहयर, पुंसित्थीणं व मल्लजुद्धे वा । लोट्टादिभंडणे वा, गुज्झग उड्डाह अचियत्तं ॥ ३१०६॥
द्वयोः सेनाधिपत्योर्द्वयोर्वा तथाविधप्रसिद्धपात्रयोः स्त्रियोः परस्परं व्युद्ग्रहे वर्तमाने, अथवा मल्लयुद्धे तथा द्वयोामयोः परस्परं सकलुषभावे बहवस्तरुणाः परस्परं लोष्टैर्युध्यन्ते। यदि वा बाहुयुद्धादिभिस्ततो लोष्टादिभिर्वा परस्परं भण्डने कलहे यावन्नोपशमो भवति
गाथा ३१०३-३१०६
सदेव| व्युद्ग्रहजाऽस्वाध्यायिके
१२५७ (B)
For Private And Personal Use Only