SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२५४ (B) शेषकाणि दिग्दाहादीनि भक्तानि विकल्पितानि, कदाचित् स्वाभाविकानि भवन्ति, कदाचित् देवकृतानि, तत्र स्वाभाविकेषु स्वाध्यायो न परिहियते किन्तु देवकृतेषु, परं येन कारणेन स्फुटं वैविक्त्येन तानि न ज्ञायन्ते तेन तेषामविशेषेण परिहारः ॥ ३०९८ ॥ सम्प्रति दिग्दाहादिव्याख्यानमाहदिसिदाह छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणा, उ जूवतो सुक्क दिण तिन्नि ॥ ३०९९ ॥ दिशि पूर्वादिकायां छिन्नमूलो दाहः प्रज्वलनं दिग्दाहः। किमुक्तं भवति? अन्यतमस्यां दिशि महानगरप्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार इति दिग्दाहः। उल्का पृष्ठतः सरेखा | प्रकाशयुक्ता वा। यूपको नाम शुक्ले शुक्लपक्षे त्रीणि दिनानि यावत् द्वितीयस्यां तृतीयस्यां |३०९७-३१०२ चतुर्थ्यां चेत्यर्थः। सन्ध्याछेदः सन्ध्याविभागः स आवियते येन स सन्ध्याछेदावरणश्चन्द्रः । दिग्हादि स्वरूपम् इयमत्र भावना-शुक्लपक्षे द्वितीया-तृतीया-चतुर्थीरूपेषु त्रिषु दिनेषु सन्ध्यागतश्चन्द्र इति कृत्वा सन्ध्या न विभाव्यते, ततस्तानि शुक्लपक्षे त्रीणि दिनानि यावत् चन्द्रः सन्ध्याछेदावरणः स १२५४ (B) यूपक इति एतेषु दिवसेषु प्रादोषिकी पौरुषी नास्ति सन्ध्याछेदाऽविभावनादिति ॥ ३०९९।। गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy